सामग्री पर जाएँ

महाभारतसूक्तयः (आहारः)

विकिसूक्तिः तः

आहारात् सर्वभूतानि सम्भवन्ति महीपते।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः॥ वन.१३१/७॥

शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्।
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम्॥ वन.१३१/८॥

आहार प्रभवाः प्राणा मनो दुर्निग्रहं चलम्॥ वन.२६०/२५॥

यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्।
हितं च परिणामे यत् तदाद्यं भूतिमिच्छता॥ उद्योग.३४/१४॥

आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ॥ उद्योग.३४/४९॥

गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च बलं सुखं च।
अनाविलं चास्य भवत्यपत्यं न चैनमाद्यून इति क्षिपन्ति॥ उद्योग.३७/३४॥

सम्प्रीतिभोज्यान्यान्नानि आपदभोज्यानि वा पुनः। उद्योग.९१/२५॥

द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत्॥ उद्योग.९१/३१-३२ दा.पा॥

आयुः सत्त्वबलारोग्य सुखप्रीतिविवर्धनाः।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः॥भीष्म.४१/८; गीता.१७/८॥

कट्वम्ललवणात्युष्ण तीक्ष्णरूक्षविदाहिनः।
आहाराः राजसस्येष्टा दुःखशोकामयप्रदाः॥ भीष्म.४१/९; गीता.१७/९॥

यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥भीष्म.४१/१०; गीता.१७/१०॥

मृष्टं भुञ्जीत नाहितम्॥ शान्ति.७०/८॥

यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम्।
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते॥ शान्ति.१३९/८०॥

पथ्यं मुक्त्वा तु यो मोहाद् दुष्टमश्नाति भोजनम्।
परिणाममविज्ञाय तदन्तं तस्य जीवितम्॥ शान्ति.१३९/८१॥

तद्वत् संसार कान्तारमातिष्ठञ्श्रमतत्परः।
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा॥ शान्ति.२१२/१४॥

आहारनित्यमेनास्य पाप्मा शाम्यति राजसः॥ शान्ति.२१७/१८॥

वैमनस्यं च विषये यान्त्यस्य करणानि च।
तस्मात् तन्मात्रमादद्यात् यावदत्र प्रयोजनम्॥ शान्ति.२१७/१९॥

अन्तरा प्रातरांश च सायमाशं तथैव च।
सदोपवासी स भवेद् यो न भुङ्क्तेऽन्तरा पुनः॥ शान्ति.२२१/१०॥

न भक्षयेत् तथा मांसममांसाशी भवत्यति।
दाननित्यः पवित्रश्च अस्वप्नश्च दिवास्वपन्॥ शान्ति.२२१/१२॥

भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा सदा।
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर॥ शान्ति.२२१/१३॥

ब्रह्मचर्यात् परं तात मधुमांसस्य वर्जनम्।
मर्यादायां स्थितो धर्मः शमश्चैवास्य लक्षणम्॥ अनुशासन.२२/२५॥

स्वशरीरं सदा रक्षेदाहाराचारयोरपि।
हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया॥ अनु.१४५ दा.पा.V॥

अमांसमद्यमक्लेद्यमपर्युषितमेव च।
अतिकट्वम्ललवणहीनं च शुभगन्धि च॥
कृमि केशमलैर्हीनं संवृतं शुद्धदर्शनम्॥ अनु.१४५ दा.पा.XI॥

अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवान्॥ आश्व.१७/८॥

दुष्टान्नामिषपानं च यदन्योन्यविरोधि च।
गुरु चाप्यमितं भुङक्ते नातिजीर्णेऽपि वा पुनः॥ आश्व.१७/१०॥

व्यायाममतिमात्रं च व्यवायं चोपसेवते।
सततं कर्मलोभाद् वा प्राप्तं वेगं विधारयेत्॥ आश्व.१७/११॥

अपक्वानागते काले स्वयं दोषान् प्रकोपयेत्॥ आश्व.१७/१२॥

स्वदोषकोपनाद् रोगं लभते मरणान्तिकम्॥
आद्रपादस्तु भुञ्जीयात् प्राङ्मुखश्चासने शुचौ।
पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः॥ आश्व.९२ दा.पा.अ.XIV॥

अन्नं पूर्वं नमस्कुर्यात् प्रहष्टेनान्तरात्मना।
नान्यदालोकयेदन्नान्न जुगुप्सेत तत्परः॥ आश्व.९२ दा.पा.अ.XIV॥

सदा चात्यशनं नाद्यान्नाति हीनं च कर्हिचित्।
यथान्नेन व्यथा न स्यात् तथा भुञ्जीत नित्यशः॥आश्व.९२ दा.पा.अ.XIV॥