सामग्री पर जाएँ

महाभारतसूक्तयः (इच्छा)

विकिसूक्तिः तः

अथवा कं नरं लोके न स्पृशन्ति मनोरथाः॥ कर्ण.४६ दा.पा.४-५॥

संयुक्ता काममन्युभ्यां क्रोधहर्षासमञ्जसाः।
न ते जयफलं किंचिद् भोक्तारो जातु कर्हिचित्॥ शान्ति.७/२०॥

नाह्ना पूरयितुं शक्यां न मासैर्भरतर्षभ।
अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात्॥ शान्ति.१७/४॥

यदा संहरते कामान् कूर्मोऽङ्गानीव सर्वशः।
तदाऽऽत्मज्योतिरचिरात् स्वात्मन्येव प्रसीदति॥ शान्ति.२१/३॥

यद् यत् जयति कामानां तत् सुखस्याभिपूर्यते।
कामानुसारी पुरुषः कामाननुविनश्यति॥ शान्ति.१७४/४५॥

एतां बुद्धिं समास्थाय सुखमास्ते गुणान्वितः।
सर्वान् कामान् जुगुप्सेत कामान् कुर्वीत पृष्टतः॥ शान्ति.१७४/४९॥

वृत्त एष हृदि प्रोढौ मृत्युरेष मनोभवः।
क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः॥ शान्ति.१७४/५०॥

नोर्ध्वं नावाङ् न तिर्यक् च न क्वचिच्छक्र कामये।
न हि ज्ञेये न विज्ञाने न ज्ञाने कर्म विद्यते॥ शान्ति.२२२/३२॥

नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्॥ आश्व.१३/१२॥

यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्।
तस्य तस्मिन् प्रहरणे पुनः प्रादुर्भवाम्यहम्॥ आश्व.१३/१३॥

यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः।
भावो भवामि तस्याहं स च मां नावबुध्यते॥ आश्व.१३/१४॥

यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः।
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च।
अवध्यः सर्वभूतानामहमेकः सनातनः॥ आश्व.१३/१८॥