महाभारतसूक्तयः (इन्द्रियसंयमः)
ॠतौ दारांश्च गच्छन्ति तत् तथा भरतर्षभ।
ततेऽवर्धन्त धर्मेण सहस्त्रशतजीविनः॥ आदि.६४/११॥
ताः प्रजाः पृथिवीपाल धर्मवृतपरायणाः।
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः॥ आदि.६४/१२॥
इन्द्रियाण्येव तत् सर्वं यत् स्वर्गनरकावुभौ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च॥ वन.२११/१९॥
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्॥ वन.२११/२०॥
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु।
धृति कुर्वीत सारथ्ये धृत्या तानि जयेत् ध्रुवम्॥ वन.२११/२५॥
एवं पुन र्ब्रह्मचर्याप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम्।
अश्रद्दधत् परलोकाय मूढो हित्वा देहं तप्यते प्रेत्य मन्दः॥उद्योग.२७/९॥
इन्द्रियैरिन्द्रियार्येषु वर्तमानैरनिग्रहैः।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव॥ उद्योग.३४/५४॥
यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा।
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट्॥ उद्योग.३४/५५॥
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत्।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते॥ उद्योग.३४/५७॥
अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः।
इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम्॥ उद्योग.३४/६१॥
धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः।
श्री प्राणधनदारेभ्यः क्षिप्रं स परिहीयते॥ उद्योग.३४/६२॥
अर्थानामीश्वरो यः स्यादिन्द्रियानामनीश्वरः।
इन्द्रियाणामनैश्वर्यादैश्वर्याद् भ्रश्यते हि सः॥ उद्योग.३४/६३॥
इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते।
अत्यर्थं पुनरुत्सर्गः सादयेद् दैवतान्यपि॥ उद्योग.३९/५१॥
दम्स्तेजो वर्घयति पवित्रं दम उत्तमम्।
विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत्॥ उद्योग.६३/११॥
अलोलुपस्तथाल्पेप्सुः कामानामविचिन्तिता।
समुद्रकल्पः पुरुषः स दान्तः परिकीर्तितः॥ उद्योग.६३/१७॥
इन्द्रियैर्नियतैर्बुद्धिर्वधतेऽग्निरिवेन्धनैः॥ उद्योग.१२९/२६॥
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत्॥ उद्योग.१२९/२९॥
आत्मवन्तं न कर्माणि निबन्धनन्ति धनंजयः॥ भीष्म.२९/३; गीता ५/३॥
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः।
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः॥ सौप्तिक. ५/१॥
तथैव तावन्मेधावी विनयं यो न शिक्षते।
न च किंचन जानाति सोऽपि धर्मार्थ निश्चयम्॥ सौप्तिक. ५/२॥
चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य हि।
न स धर्मान् विजानाति दर्वी सूपरसानिव॥ सौप्तिक. ५/३॥
मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि।
क्षिप्रं धर्मान् विजानाति जिह्वा सूपरसानिव॥ सौप्तिक. ५/४॥
शुत्रूषुस्त्वेव मेघावी पुरुषो नियतेन्द्रियः।
जानीयादागमान् सर्वान् ग्राह्यं च न विरोधयेत्॥ सौप्तिक. ५/५॥
अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः।
दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम्॥ सौप्तिक. ५/६॥
यतेन्द्रियो नरो राजन् क्रोधलोभनिराकृतः।
सन्तुष्टः सत्यवादी यः स शान्तिमधिगच्छति॥ स्वी.७/१८॥
साधुः परमदुःखानां दुःखभैषज्यमाचरेत्।
ज्ञानौषधमवाप्येह दूरपारं महौषधम्।
छिन्द्याद् दुःखमहाव्याधिं नरः संयतमानसः॥ स्वी.७/२१॥
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः।
तथोन्मोचयते दुःखाद् यथाऽऽत्मा स्थिरसंयमः॥ स्वी.७/२२॥
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः॥ स्वी.७/२३॥
शीलरश्मिसमायुक्तः स्थितो यो मानसे रथे।
त्यक्त्वा मृत्युभयं राजन् ब्रह्मलोकं स गच्छति॥ स्वी.७/२४॥
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम्।
प्रतिषेद्धा न चाप्येषु दुर्बलेष्वहितेष्वपि॥ शान्ति.१०४/४७॥
सत्त्वेन रजसा चैव तमसा चैव मोहिताः।
चक्रवत् परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम्॥ शान्ति.२१२/१७॥
सत्यशौचार्जवत्यागैर्वर्चसा विक्रमेण च।
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च॥ शान्ति.२१२/१५॥
भावान् सर्वानुपावृत्तान् समीक्ष्य विषयात्मकान्।
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च॥ शान्ति.२१२/१६॥
क्रिया तपश्च सत्यं च दमे सर्वं प्रतिष्ठितम्॥ शान्ति.२२०/३॥
विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत्॥ शान्ति.२२०/४॥
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्।
नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश्चन॥ शान्ति.२३९/५॥
चतुर्द्वारं पुरुषं चतुर्मुखं चतुर्धा चैनमुपयाति वाचा।
बाहुभ्यां वाच उदरादुपस्थात् तेषां द्वारं द्वारपालो बुभूषेत्॥शान्ति.२६९/२३॥
नाक्षैर्दीव्येन्नाददीतान्यवित्तं न वायोनीयस्य श्रृतं प्रगृह्णात्।
क्रुद्धो न चैव प्रहरेत धीमांस्तथास्य पाणिपादं सुगुप्तम्॥शान्ति.२६९/२४॥
नाक्रोशमृच्छेन्न वृथा वदेच्च न पैशुनं जनवादं च कुर्यात्।
सत्यव्रतो मितभाषोऽप्रमत्तस्तथास्यवाग्द्वारमथोसुगुप्तम्॥ शान्ति.२६८/२५॥
नानाशनः स्यान्न महाशनः स्यादलोलुपः साधुभिरागतः स्यात्।
यात्रार्थमाहारमिहाददीत तथास्य स्याज्जाठरी द्वारगुप्तिः॥शान्ति.२६९/२६॥
न वीर पत्नीं विहरेत नारीं न चापि नारीमनृतावाह्वयीत।
भार्याव्रतं ह्यात्मनि धारयीत तथास्योपस्थद्वारगुप्तिर्भवेत्॥शान्ति.२६९/२७॥
वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः।
दमास्योपनिषन्मोक्ष एतत् सर्वानुशासनम्॥ शान्ति.२९९/१३॥
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः।
उपस्थमुदरं हस्तौ वाक् चतुर्थी स धर्मवित्॥ शान्ति.१९९/२८॥
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्।
संनियम्य तु तान्येव सिद्धिमाप्नोति मानवः॥ शान्ति.३२३/८॥
परिग्रहं परित्यज्य भव तात जितेन्द्रियः।
अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम्॥ शान्ति.३२९/२०॥
हरन्ति दोषजातानि नरं जातं यथेच्छकम्।
प्रभवामि सदा धृत्या भद्रे स्वशयनं व्रज॥ अनुशासन.२०/१६॥
दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः॥ अनु.७५/११॥
दाता कुप्यति नो दान्तस्तस्माद् दानात् परं दमः॥ अनु.७५/१५॥
इन्द्रियाणां निरोधेन दानेन च दमेन च।
नरः सर्वमवाप्नोति मनसा यद् यदिच्छति॥अनु.१४५ दा.पा.अ.IV॥
निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम्।
मनसा विनिवृत्तानां धर्मस्य निचयो महान्॥ अनु.१४५ दा.पा.अ.IV॥
इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत्।
मनः षष्ठानि संयम्य नित्यमात्मनि योजयेत्॥
इन्द्रियाणां विसर्गेण दोषमृच्छत्यसंशयम्।
संनियम्य नु तान्येव ततः सिद्धिमवाप्नुयात्॥
षण्णामात्मनि युक्तानामैश्वर्यं योऽधिगच्छति।
न च पापैर्न चानर्थैः संयुज्येत विचक्षणः॥ अनु.१४५ दा.पा.अ.XIV॥
अप्रमत्तः सदा रक्षेदिन्द्रियाणि विचक्षणः।
अरक्षितेषु तेष्वाशु नरो नरकमेति हि॥ अनु.१४५ दा.पा.अ.XIV॥
इन्द्रियेषु च जीर्यत्सु च्छिद्यमाने तथाऽऽयुषि।
पुरस्ताच्च स्थिते मृत्यौ किं सुखं पश्यतः शुभे॥अनु.१४५ दा.पा.अ.XIV॥
व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः।
नरस्याकृतकृत्यस्य किं सुखं मरणे सति॥ अनु.१४५ दा.पा.अ.XIV॥
संचिन्तयानमेवार्थं कामानामवितृप्तकम्।
व्याघ्रः पशुमिवारण्ये मृत्युरादाय गच्छति॥
जन्ममृत्युजरादुःखैः सततं समभिद्रुतः।
संसारे पच्यमानस्तु पापान्नोद्विजते जनः॥ अनु.१४५ दा.पा.अ.XIV॥
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणि तथिअव च॥ अनु.१६२/४९॥
इन्द्रियाणां निरोधेन सर्वेषां विशयैषिणाम्।
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते॥ आश्व.४२/४८॥
कामं क्रोधं भयं लोभमभिद्रोहमथानृतम्।
इन्द्रियाणां निरोधेन सदा त्यजति दुस्त्यजान्॥ आश्व.४२/५६॥