महाभारतसूक्तयः (ईर्ष्या)

विकिसूक्तिः तः
Jump to navigation Jump to search

हृत्तपो मत्सरः स्मृतः॥ वन.३१३/९८॥

य ईर्षुः परवित्तेषु रूपे वीर्ये कुलोन्वये।
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः॥ उद्योग.३४/४२॥

अमर्षवशमापन्नो न किंचिद् बुध्यते जनः॥ उद्योग.१२४/४२॥

बहवः पण्डिता मूर्खा लुब्धा मायोपजीविनः।
कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि॥ शान्ति.१११/६३॥

श्रियं विशिष्टां विपुलं यशो धनं न दोषदर्शी पुरुषः समुश्नते॥शान्ति.१२०/५४॥

सत्यत्यागात् तु मात्सर्यमहितानां च सेवया।
एतत् तु क्षीयते तात साधूनामुपसेवनात्॥ शान्ति.१६३/१५॥

ईर्ष्या कामात् प्रभवति संहर्षाच्चैव जायते।
इतरेषां तु सत्त्वानां प्रज्ञया सा प्रणश्यति॥ शान्ति.१६३/१७॥

न तथा वक्तुमिच्छन्ति कल्याणान् पुरुषे गुणान्।
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः॥ शान्ति.२९९/२३॥

अनायुष्या भवेदीर्ष्या तस्मादिर्ष्यां विवर्जयेत्॥ अनु.१०४/१३७॥