महाभारतसूक्तयः (कटुवचनम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

निःसंशयो विशेषेण परुषं मर्मकृन्तनम्।
सुहृन्मित्रनास्तेषु सौहृतं न च कुर्वते॥ आदि.७९/१२ दा.पा.१३॥

वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि।
शनैर्दुःखं शस्त्र विषाग्नि जातं तान् पण्डितो नावसृजेत् परेषु॥आदि.७९॥१३ दा.पा.॥

संरोहति शरैर्विद्धं वनं परशुना हतम्।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥ आदि.१/१३ दा.पा.॥

नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत।शान्ति.२९९/८॥

ययास्य वाचा पर उद्विजेत न तां वदेदुषतीं पापलोक्याम्॥आदि.८७/८॥

अरुन्तुदं परुषं तीक्ष्णवाचं वाक्कण्टकैर्वितुन्दन्तं मनुष्यान्।उद्योग.३६/८॥

विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वहन्तम्॥आदि.८७/८॥

तस्मात् सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्।
पूज्यान् सम्पूज्येद् दद्यान्न च याचेत कदाचन॥ आदि.८७/१३॥

अमित्रतां याति नरोऽक्षमं ब्रुवन् निगूहते गुह्यममित्रसंस्तवे॥ सभा.६४/५॥

भषन्ति हैवं श्वनराः सदैव॥ सभा.६६/९॥

वाक्संयमो हि नृपते सुदुष्करतमो मतः।
अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम्॥ उद्योग.३४/७६॥

अभ्यावहति कल्याणं विविधं वाक् सुभाषिता।
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते॥ उद्योग.३४/७७॥

रोहते सायकैर्विद्धं वनं परशुना हतम्।। आदि.७९/१३ दा.पा.॥

वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥ उद्योग.३४/७८॥

वाक्शल्यस्तु न निर्हन्तुं शक्यो हृदिशयो हि सः॥ उद्योग.३४/७९॥

वाक्सायका वदनान्निषपतन्ति यैराहतः शोचति रात्र्यहानि।
परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेभ्यः॥उद्योग.३४/८०॥

मर्माण्यस्थीनि हृदयं तथासून् रूक्षा वाचो निर्दहन्तीह पुंसाम्।
तस्माद् वाचमुषतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत॥उद्योग.३६/७॥