सामग्री पर जाएँ

महाभारतसूक्तयः (कर्मफलम्)

विकिसूक्तिः तः

नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन॥ वन.१२८/१४॥

अयमादिशरीरेण देवसृष्टेन मानवः।
शुभानामशुभानां च कुरुते संचयं महत्।। वन.१८३/७६॥

आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्।
सम्भवत्येव युगपद् योनौ नास्त्यन्तराभवः॥ वन.१८३/७७॥

तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा।
फलत्यथ सुखार्हो वा दुखार्हो वाथ जायते॥ वन.१८३/७८॥

कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः।
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः॥ वन.१८३/७९॥

मनुष्यास्तप्ततपसः सर्वागमपरायणाः।
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः॥ वन.१८३/८१॥

सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसाः।
शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः॥ वन.१८३/८२॥

जितेन्द्रियत्वाद् वशिनः शुक्लत्वान्मन्दरोगिणः।
अल्पबाधपरित्रासाद् भवन्ति निरुपद्रवाः॥ वन.१८६/८३॥

च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः।
स्वात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषाः॥ वन.१८६/८४॥

किंचिद् दैवाद् हठात् किंचित् किंचिदेव स्वकर्मभिः।
प्राप्नुवन्ति नरा राजन् मा तेऽस्त्वन्या विचारणा॥ वन.१८३/८६॥

धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताङ्गाः।
तेषामयं शत्रुवरघ्न लोको नासौ सदा देहसुखे रतानाम्॥ वन.१८३/८९॥

ये योगयुक्तास्तपसि प्रसक्ता स्वाध्यायशीलाः जरयन्ति देहान्।
जितेन्द्रियाः प्राणिवधे निवृत्तास्तेषामसौ नायमरिघ्न लोकः॥ वन.१८३/९०॥

ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले।
दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः॥ वन.१८३/९१॥

ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ति।
न चानुगच्छन्ति सुखानि भोगांस्तेषामयं नैव परश्च लोकः॥ वन.१८३/९२॥

कृतमन्वेति कर्तारं पुराकर्म द्विजोत्तम॥ वन.२०७/२३॥

विषमां च दशां प्राप्तो देवान् गर्हति वै भृशम्।
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः॥ वन.२०९/६॥

शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत्।
मोहनीयैर्वियोनीषु त्वधोगामी च किल्विषी॥ वन.२०९/३२॥

स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः।
तपोयोग सभारम्भं कुरुते द्विजसत्तम॥ वन.२०९/३९॥

ध्रुवं न नाशोऽस्ति कृतस्य लोके॥ वन.२३६/२७॥

न कर्मणां विप्रणाशोऽस्त्यमुत्र पुण्यानां वाप्यथवा पापकानाम्।
पूर्वं कर्तुर्गच्छति पापपुण्यं पश्चात् त्वेनमनुयात्येव कर्त्ता॥ उद्योग.२७/१०॥

इह क्षेत्रे क्रियते पार्थ कार्यं न वै किंचित् क्रियते प्रेत्यकार्यम्॥उद्योग.२७/१२॥

जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसोऽप्रियाणि।
न कर्त्तव्यं विद्यते तत्र किंचिद्न्यत्र वै चेन्द्रियप्रीणनाद्धि॥ उद्योग.२७/१३॥

तस्मिन् स्थितो वाप्युभयं हि नित्यं ज्ञानेन विद्वान् प्रतिहन्ति सिद्धम्।
तथान्यथा पुण्यमुपैति देही तथागतं पापमुपैति सिद्धम्॥उद्योग.४२/२४॥

न नूनं सुकृतस्येह फलं कश्चित् समश्नुते॥ द्रोण.३/१०॥

नूनं पूर्वकृतं कर्म सुघोरमनुभूयते॥ शल्य.५९/२२॥

शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति।
अनुधावति धावन्तं कर्म पूर्वकृतं नरम्॥ स्त्री.२/३२॥

यस्यां यस्यामवस्थायां यत् करोति शुभाशुभम्। अनुशासन.७/४॥

तस्यां तस्यामवस्थायां तत्फलं समुपाश्नुते॥ स्त्री.२/३३

येन येन शरीरेण यद्यत् कर्म करोति यः॥ अनुशासन.७/३॥

तेन तेन शरीरेण तत्फलं समुपाश्नुते॥ स्त्री.२/३४॥

शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकम्।
अतिरिच्येत यो यत्र तत्कर्ता लभते फलम्॥ शान्ति.३५/४०॥

न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा।
मार्गेणान्येन गच्छन्ति बद्धाः सुकृत दुष्कृतैः॥ शान्ति.१५३/३८॥

संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः।
एकः क्लेशानवाप्नोति परत्रेह च मानवः॥ शान्ति.१७४/२५॥

पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम्।
प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम्॥ शान्ति.१७४/४७॥

सुशीघ्रामपि धावन्तं विधानमनुघवति।
शेते सहशयानेन येन येन यथा कृतम्॥ शान्ति.१८१/८॥

उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति।
करोति कुर्वतः कर्म च्छायेवानुविधीयते॥ शान्ति.१८१/९॥

येन येन यथा यद् यत् पुरा कर्म समीहितम्। शान्ति.३२२/१०॥

तदेकतरो भुङ्क्ते नित्यं विहितमात्मना॥ शान्ति.१८१/१०॥

अचोद्यमानानि यथा पुष्पाणि फलानि च। शान्ति.३२२/१२॥

स्वं कालं नातिवर्तन्ते तथा कर्म पुरा कृतम्॥ शान्ति.१८१/१२॥

आत्मना विहितं दुःखमात्मना विहितं सुखम्। शान्ति.३२२/१४॥

गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम्॥ शान्ति.१८१/१४॥

यथा धेनुसहस्त्रेषु वत्सो विन्दति मातरम्।
तथा पूर्वकृतं कर्म कर्त्तारमनुगच्छति॥ शान्ति.१८१/१६॥

दीर्घकालेन तपसा सेवितेन तपोवने।
धर्मनिर्धूतपापानां सम्पद्यन्ते मनोरथाः॥ शान्ति.१८१/१८॥

यः करोत्यनभिसंधिपूर्वकं तच्च निर्णुदति यत्पुराकृतम्।
नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह सर्वतः॥शान्ति.१९४/६१॥

यथाकर्म तथा लाभ इति शास्त्रनिदर्शनम्॥ शान्ति.२७९/२०॥

तिर्यग् गच्छन्ति नरकं मानुष्यं देवमेव च।
सुखदुःखे प्रिये द्वेष्ये चरित्वा पूर्वमेव ह॥ शान्ति.२७९/२१॥

भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम्।
स्वकृतेनाधिगच्छन्ति नास्त्यकृतं पुरा॥ शान्ति.२८८/१७॥

नाबीज्जायते किंचिन्नाकृत्वा सुखमेधते।
सुकृतैर्विदन्ते सौख्यं प्राप्य देहक्षयं नरः॥ शान्ति.२९०/१२॥

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते॥ शान्ति.२९०/१६॥

निरन्तरं च मिश्रं च लभते कर्म पार्थिव।
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते॥ शान्ति.२९०/१७॥

नायं परस्य सुकृतं दुष्कृतं चापि सेवते।
करोति यादृशं कर्म तादृशं प्रतिपद्यते॥ शान्ति.२८०/२॥

न माता न पिता किंचित् कस्यचित् प्रतिपद्यते।
दानपथ्यौदनो जन्तुः स्वकर्मफलमश्नुते॥ शान्ति.२९८/३९॥

माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा।
अष्टापदपदस्थाने लक्षमुद्रेव लक्ष्यते॥ शान्ति.२९८/४०॥

स्वकर्मनिक्षेपं विधानपरिरक्षितम्।
भूतग्राममिमं कालः समन्तादपकर्षति॥ शान्ति.३२२/११॥

योऽयमिच्छेद् यथाकामं कामानां तदवाप्नुयात्।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्॥ शान्ति.३३१/९॥

शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा।
कृतं फलति सर्वत्र नाकृतं भुज्यते क्वचित्॥ अनुशासन.६/१०॥

न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह।
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च॥ अनु.७/५॥

नाकृतं भुज्यते कर्म न कृतं नश्यते फलम्॥ अनुशासन.९६ दा.पा.॥

तथा शुभासमाचारो ह्यशुभानि विवर्जयेत्।
शुभान्येव समादद्यात् या इच्छेद् भूतिमात्मनः॥ अनुशासन.९६ दा.पा.॥

पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतो नराः॥ अनु.१०२/२॥

कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये।
धर्मोऽपि हि मनुष्येषु कमार्थश्च तथा गुणाः॥ अनु.११८/४॥

शुभकृच्छुभयोनीषु पापकृत् पापयोनिषु॥ अनु.११९/९॥

वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः।
कर्मणा मनसा वाचा ये न हिंसन्ति किंचन॥ अनु.१४४/७॥

तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः॥ अनु.१४४/९॥

यादृशं कुरुते कर्म तादृशं फलमश्नुते।अनु.१४५ दा.पा.अ.VI॥

सर्वदाऽऽत्मा कर्मवशो नानाजातिषु जायते॥ अनु.१४५ दा.पा.अ.X॥

केवलं चाभिसंधाय संरम्भाच्च करोति यत्।
कर्मणस्तस्य नाशस्तु न कथंचन विद्यते॥ अनु.१४५ दा.पा.अ.VIII॥

अन्यथा यत् कृतं पापं प्रमादाद् वा यदृच्छया।
प्रायश्चित्ताश्वमेधाभ्यां श्रेयसा तत् प्रणश्यति॥ अनु.१४५ दा.पा.अ.VIII॥

कर्म कर्त्ता नरोऽभोक्ता स नास्ति दिवि वा भुवि॥अनु.१४५ दा.पा.अ.VIII॥

न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः॥ अनु.१४५ दा.पा.अ.VIII॥

न हि कश्चित् स्वयं मर्त्यः स्ववशः कुरूते क्रियाम्॥ आश्व.३/१॥

शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्।
प्राप्य प्राप्यानुपच्यन्ते क्षेत्रं क्षेत्रं तथा तथा॥ आश्व.१८/१॥

पुरुषस्यात्मनिः श्रेयः शुभाशुभनिदर्शनम्॥ आश्व.५०/२०॥

यथा कर्म कृतं लोके तथैतानुपपद्यते॥ आश्व.५०/३१॥

यस्य यद् विहितं वीर सोऽवश्यं तदुपाश्नुते॥ महा प्रस्थान २/१७॥