सामग्री पर जाएँ

महाभारतसूक्तयः (कर्म)

विकिसूक्तिः तः

कर्मणामी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा।
अहोरात्रे विदधत् कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः॥ उद्योग.२९/९॥

मासार्धमासानथ नक्षत्रयोगानतन्द्रितश्चन्द्रमाश्चाभ्युपैति।
अतन्द्रितो दहते जातवेदाः समिध्यमानः कर्म कुर्वन् प्रजाभ्यः॥उद्योग.२९/१०॥

अतन्द्रिता भारमिमं पहान्तं बिभर्ति देवी पृथिवी बलेन।
अतन्द्रिताः शीघ्रमपो वहन्ति संतर्पयन्त्यः सर्वभूतानि नद्यः॥उद्योग.२९/११॥

अतन्द्रितो वर्षति भूरितेजाः संनादयन्नन्तरिक्षं दिशश्च।
अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिंच्छन् बलभिद् देवतानाम्॥उद्योग.२९/१२॥

तथा नक्षत्राणि कर्मणामुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे॥उद्योग.२९/१५॥

ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च निषेवमाणा ॠषयोऽमुत्रभान्ति॥उद्योग.२९/१६॥

कर्मण्येवधिकारस्ते मा फलेषु कदाचन॥ भीष्म.२६/४७॥

प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि।
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्॥ सौप्तिक.२/१३॥

कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत॥ स्त्री.३/११॥

न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः॥ स्त्री.१८/१२॥

अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत्।
तस्मात् कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः॥ शान्ति.१०/२८॥

शुभं हि कर्म राजेन्द्र शुभत्वायोपपद्यते॥ शान्ति.५९/१३०॥

कर्मणा वर्धते धर्मो यथा धर्मस्तथैव सः॥ शान्ति.६५/१०॥

कर्म चात्महितं कार्यं तीक्ष्णं वा यदि व मृदु।
ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिञ्चनः॥ शान्ति.१३९/८३॥

तस्मात् सर्वं व्यपोह्यार्थं कार्य एव पराक्रमः।
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः॥ शान्ति.१३९/८४॥

विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम्।
मित्राणि सहजान्याहुर्वर्तयन्तीह तैर्बुधाः॥ शान्ति.१३९/८५॥

निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः।
एतान्युपहितान्याहु सर्वत्र लभते पुमान्॥ शान्ति.१३९/८६॥

यत् कृतं स्याच्छुभं कर्म पापं वा यदि वाश्नुते।
तस्माच्छुभानि कर्माणि कुर्याद् वा बुद्धिकर्मभिः॥ शान्ति.२१५/५॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(कर्म)&oldid=15574" इत्यस्माद् प्रतिप्राप्तम्