महाभारतसूक्तयः (कामः)
त्यागः कामवतीनां हि स्त्रीणां सद्मिर्विगर्हितः॥ आदि.९७/५॥
सततं यश्च कामार्थी नेतरावनुतिष्ठति।
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते॥ वन.३३/२६॥
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्।
कामतो रममाणस्य मीनस्येवाम्भसः क्षये॥ वन.३३/२७॥
तस्माद् धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः।
प्रकृतिः स हि कामस्य पावकस्यारणिर्यथा॥ वन.३३/२८॥
द्रव्यार्थस्पर्थसंयोगे या प्रीतिरुपजायते।
स कामश्चित्रसंकल्पः शरीरं नास्य दृश्यते॥ वन.३३/३०॥
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च।
विषये वर्तमानानां या प्रीतिरुपजायते॥ वन.३३/३७॥
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्॥
पुमांसमिष्टश्च विषयो मैथुनाय न संशयः।। विराट.२४/४॥
उपस्थितस्य कामस्य प्रतिवादो न विद्यते।
अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः॥ उद्योग.३९/४४॥
कामर्थौ लिप्समानस्तु धर्ममेवादितश्चरेत्।
न हि धर्मादपैत्यर्थः कामो वापि कदाचन॥ उद्योग.१२४/३७॥
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः॥ उद्योग.१२९/३१॥
न चापि तृप्तिः कामानां विद्यतेऽद्यापि कस्यचित्॥ भीष्म.९/७४॥
कामे प्रसक्तः पुरुषः किमकार्यं विवर्जयेत्॥ शान्ति.८८/२१॥
संकल्पाज्जायते कामः सेव्यमानो विवर्धते॥ शान्ति.१६३/८॥
यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति॥
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति।
नाकामः कामयानोऽस्ति तस्मात् कामः विशिष्यते॥ शा.१६७/२९॥
वणिजः कर्षकाः गोपाः कारवः शिल्पिनस्तथा।
देवकर्मकृतश्चैव युक्ताः कामेन कर्मसु॥ शान्ति.१६७/३२॥
नवनीतं यथा दघ्नस्तथा कामोऽर्थधर्मतः।
श्रेयस्तैलं हि पिण्याकाद् घृतं श्रेय उदश्वितः॥
श्रेयः पुष्पफलं काष्ठात् कामो धर्मार्थयोर्वरः॥ शान्ति.१६७/३५॥
यः कामानाप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत्।
प्रापणात् सर्वकामानां परित्यागो विशिष्यते॥ शान्ति.१७७/१६॥
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन्।
त्यक्त्वा सर्वसमारम्भान् प्रतिबुद्धोऽस्मि जागृमि॥ शान्ति.१७७/२२॥
जानामि काम त्वां चैव यच्च किंचित् प्रियं तव।
तवाहं प्रियमन्विच्छनात्मन्युपलभे सुखम्॥ शान्ति.१७७/२४॥
काम जानामि ते मूलं संकल्पात् किल जायसे।
न त्वां संकल्पयिष्यामि समूलो न भविष्यसि॥ शान्ति.१७७/२५॥
तृष्णशोकश्रमाणां हि त्वं काम प्रभवः सदा॥ शान्ति.१७७/३३॥
यद् यदालम्बसे काम तत्तदेवानुरुध्यसे॥ शान्ति.१७७/३७॥
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः।
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम्॥ शान्ति.१७७/३८॥
परित्यजामि काम त्वां हित्वा सर्वमनोगतीः।
न त्वं मया पुनः काम वत्स्यसे न च रंस्यसे॥ शान्ति.१७७/४२॥
तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन्।
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः॥ शान्ति.१७७/४४॥
यद् यत् त्यजति कामानां तत् सुखस्याभिपूर्यते।
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते॥ शान्ति.१७७/४८॥
कामानुबन्धं नुदेत यत् किंचित् पुरुषो रजः।
कामक्रोधोद्भवं दुःखमह्रीररतिरेव च॥ शान्ति.१७७/४९॥
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम्।
प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी॥ शान्ति.१७७/५२॥
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्।
मूलं बुद्धिरिन्द्रियग्रामं शकुन्तमिव पञ्जरे॥ शान्ति.१८०/२८॥
न खल्वप्यरसज्ञस्य कामः क्वचन जायते।
संस्पर्शाद् दर्शनाद् वापि श्रवणाद् वापि जायते॥ शान्ति.१८०/३०॥
यां यामवस्थां पुरुषोऽधिगच्छेत् तस्यां रमेतापरितप्यमानः।
एवं प्रवृद्धं प्रणुदन्मनोजं संतापनीयं सकलं शरीरात्॥शान्ति.२२६/१७॥
हृदि कामदुमश्चित्रो मोहसंचयसम्भवः।
क्रोधमानमहास्कन्धो विधित्सापरिषेचनः॥ शान्ति.२५४/१॥
तस्य चाज्ञानमाधारः प्रमादः परिषेचनम्।
सोऽभ्यसूयापलाशो हि पुरा दुष्कृतसारवान्॥ शान्ति.२५४/२॥
सम्मोहचिन्ताविटपः शोकशाखो भयाङ्कुरः।
मोहनीभिः पिपासाभिर्लताभिरनुवेष्टितः॥ शान्ति.२५४/३॥
उपासते महावृक्षं सुलुब्धास्तत्फलोप्सवः।
आयसैः संयुताः पाशैः फलदं परिवेष्ट्य तम्॥ शान्ति.२५४/४॥
यस्तान् पाशान् वशे कृत्वा तं वृक्षमपकर्षति।
गतः स दुःखयोरन्तं जरामरणयोर्द्वयोः॥ शान्ति.२५४/५॥
इच्छातोरत्र यो लाभः स्त्रीपुंसोरमृतोपमः।
अलभश्चापि रक्तस्य सोऽपि दोषो विषोपमः॥ शान्ति.३२०/६९॥
सर्वोपयात् तु कामस्य क्रोधस्य च विनिग्रहः।
कार्यः श्रेयोऽर्थिना तौ हि श्रेयोघातार्थमुद्यतौ॥ शान्ति.३२९/१०॥
कामचारी तु कामेन य इन्द्रियसुखे रतः॥ आश्व.२६/१५॥