महाभारतसूक्तयः (कालः)

विकिसूक्तिः तः
Jump to navigation Jump to search

विधातृविहितं मार्गं न कश्चिदतिवर्तते।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे॥ आदि.१/२४७॥

कालः सृजति भूतानि कालः संहरते प्रजाः।
संहरन्तं प्रजाः कालं कालः शमयते पुनः॥ आदि.१/२४८॥

कालः सुप्तेशु जागर्ति कालो हि दुरतिक्रमः।
कालः सर्वेषु भूतेषु चरत्यविधृतः समः॥ आदि.१/२५०॥

अतीतानागता भावा ये च वर्तन्ति साम्प्रतम्।
तान् निर्मितान् बुद्धवा न संज्ञां हातुमर्हसि॥ आदि.१/२५१॥

त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्।
चक्रे चतुर्विंशतिपर्वयोगे षड् वै कुमाराः परिवर्तयन्ति॥ आदि.३/१४६॥

तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तन्तून् सततं वर्तयन्त्यौ।
कृष्णान् सितांश्चैव विवर्तयन्त्यौ भुत्यान्यजस्त्रं भुवनानि चैव॥आदि.३/१४७॥

बहुविघ्नः सुराः कालः कालः कालं नयिष्यति॥ उद्योग.१२/२६॥

न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्।
कालस्य बलमेतावद् विपरीतार्थदर्शनम्॥ सभा.८१/११॥

मन्ये पर्याय धर्मोऽयं कालस्यात्यन्तगामिनः।
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम्॥ उद्योग.५१/५८॥

कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः॥ भीष्म.२/५॥

असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत्।
सृजते च पुनर्लोकान् नेह विद्यति शाश्वतम्॥ भीष्म.३/५२॥

कालो नूनं महावीर्यः सर्वलोकदुरत्ययः॥ भीष्म.१४/६०॥

कालः सर्वाणि भूतानि नियच्छति परे विधौ॥ द्रोण.८०/६॥

मोक्षो न नूनं कालात् तु विद्यते भुवि कस्यचित्॥ शल्य.२७/१८॥

कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत॥ शल्प.६३/४७॥

कालं प्राप्य महाबाहो न कश्चिदतिवर्तते॥ शल्प.६४/१०॥

कालः कर्षति भूतानि सर्वाणि विविधान्युत।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम॥ स्त्री.२/८॥

कालः पचति भूतानि कालः संहरते प्रजाः॥ स्त्री.२/२४॥

न तस्य मातापितरौ नानुग्राह्यो हि कश्चन।
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः॥ शान्ति.३३/१७॥

हेतुमात्रमिदं तस्य विहितं भरतर्षभ।
यध्दन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम्॥ शान्ति.३३/१८॥

कर्मसूत्रात्मकं विद्धि साक्षिणं शुभपापयोः।
सुखदुःखगुणोदर्कं कालं कालफलप्रदम्॥ शान्ति.३३/१९॥

कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम्॥ शान्ति.१३९/५२॥

कालः सर्वं समादत्ते कालः सर्वम् प्रयच्छति।
कालेन विहितं सर्वं मा कृथाः शक्र पौरुषम्॥ शान्ति.२२४/२५॥

कालः स्थापयते सर्वं कालः पचति वै तथा॥ शान्ति.२२४/३८॥

मासमासार्धवेश्मानमहोरात्राभिसंवृतम्।
ॠतुद्वारं वर्षमुखमायुर्वेदविदो जनाः॥ शान्ति.२२४/४६॥

ॠतून् मासार्धमासाश्च दिवासांश्च क्षणांस्तथा।
पूर्वाह्णमपराह्णं च मध्यान्हमपि चापरे॥ शान्ति.२२४/५३॥

मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा।
तं कालमिति जानीहि यस्य सर्वमिदं वशे॥ शान्ति.२२४/५४॥

न विद्या न तपो दानं न मित्राणि न बान्धवाः।
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्॥ शान्ति.२२७/३१॥

लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ॥ शान्ति.२२७/८३॥

वधबन्ध प्रमोक्षं च सर्वं कालेन लभ्यते।
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति॥ शान्ति.२२७/८६॥

तेन शक्र न शोचामि नास्ति शोके सहायता।
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित्॥ शा.२२७/९३॥

अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु॥ शान्ति.२२७/९५॥

अहोरात्रांश्च मासांश्च क्षणान् काष्ठा लवान् कलाः॥ शा.२२७/९७॥

सम्पीडयति यः कालो वृध्दिं वार्धुषिको यथा।
आवार्तमानमजरं विवर्तनं षण्णाभिकं द्वादशारं सुपर्व।
यस्येदमास्ये परियाति विश्वं तत् कालचक्रं निहितं गुहायाम्॥ शान्ति.२४५/३२॥

यथाऽऽकाशे न तिष्ठेत द्रव्यं किंचिदचेतनम्।
तथा धावति कालोऽयं क्षणं किंचिन्न तिष्ठति॥ अनु.१४५ दा. पा.॥

कालो हि परमेश्वरः॥ अनु.१४८/३९॥

एवं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत॥ मौसल ८/३२॥

भवन्ति भवकालेषु विपद्यन्ते विपर्यये।
कालमूलमिदं सर्वं जगद्बीजं धनञ्जय।। मौसल.८/३३॥

काल एव समादत्ते पुनरेव यदृच्छया।
स एव बलावान् भूत्वा पुनर्भवति दुर्बलः॥ मौसल.८/३४॥

स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः।
कालः पचति भूतानि सर्वाण्येव महामते॥ महाप्रस्थान.१/३॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(कालः)&oldid=15706" इत्यस्माद् प्रतिप्राप्तम्