सामग्री पर जाएँ

महाभारतसूक्तयः (कृष्णः)

विकिसूक्तिः तः

यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः॥ आदि.२०४/२६॥

त्वद्बुद्धिबलमाश्रित्य सर्वं प्राप्स्यति धर्मराट्।
जयोऽस्माकं गोविन्द येषां नाथो भवान् सदा॥ सभा.१५/दा.पा.१३॥

न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी॥ सभा.२०/१०॥

न शौरिणा विना पार्थो न शौरिः पाण्डवं विना॥ सभा.२०/१४॥

एवं प्रज्ञानयबलं क्रियोपायसमन्वितम्।
पुरस्कुर्वीत कार्येषु कृष्णं कार्यार्थसिद्धये॥ सभा.२०/१९॥

न हि केवलमस्कामयमर्च्यतमोऽच्युतः।
त्रयाणामपि लोकानामर्चनीयो महाभुजः॥ सभा.३८/९॥

वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा।
नृणां लोके हि कोऽन्योऽस्ति विशिष्टः केशवादृते॥ सभा.३८/१९॥

दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्त्तिर्बुद्धिरुत्तमा।
सन्नतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते॥ सभा.३८/२०॥

ॠत्विग् गुरुस्तथाऽऽचार्यः स्नातको नृपतिः प्रियः।
सर्वमेतद् हृषीकेशस्तस्मादभ्यर्चितोऽच्युतः॥ सभा.३८/२२॥

क्षेत्रज्ञ सर्वभूतानामादिरन्तश्च केशव।
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः॥ वन.१२/१७॥

न क्रोधो न च मात्सर्यं नानृतं मधुसूदन।
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु॥ वन.१२/३५॥

द्वारकामात्मसात् कृत्वा समुद्रं गमयिष्यसि॥ वन.१२/५५॥

द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवी प्रभो।
जठरं त इमे लोकाः पुरुषोऽसि सनातनः॥ वन.१२/५५॥

यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः।
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः॥ उद्योग.६८/९॥

कालचक्रं जगच्चक्रं युगचक्रं च केशवः।
आत्मयोगेन भगवान् परिवर्तयतेऽनिशम्॥ उद्योग.६८/१२॥

त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम्।
यथैवात्थ तथैवैतत् त्वयि सत्यं भविष्यति॥ उद्योग.९०/१०४॥

गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम्॥ भीष्म.२१/१३॥

अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः।
पुरुषः सनातनमयो यतः कृष्णस्ततो जयः॥ भीष्म.२३/२९॥

ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः।
श्रीर्ध्रुवापि यज्ञेषु ध्रुवो नारायणे जयः॥ द्रोण.७६/२५॥

जय एव ध्रुवस्तस्य कुत एव पराजयः।
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान्॥ द्रोण.७९/४३॥

कृष्णो न धर्मं संजह्यात् सर्वे ते हि तदन्वयाः। द्रोण.८५/३६॥

ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव।
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया॥ द्रोण.१८१/२९॥

ब्रह्म सत्यं दमः शौचं धर्मौ ह्रीः श्रीर्धृतिः क्षमा।
यत्र तत्र रमे नित्यमहं सत्येन ते शपे॥ द्रोण.१८१/३०॥

कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्नतः।
शाखा इवेतरे पार्थाः पाञ्चाला पत्रसंज्ञिताः॥ द्रोण.१८२/२३॥

कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः।
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमा॥ द्रोण.१८२/२४॥

सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता॥ कर्ण.४०/११॥

आगमो हि परः कृष्ण त्वत्तो नो वासवानुज॥ शान्ति.४८/१५॥

कृते युगे धर्म आसीत् समग्रस्त्रेताकाले ज्ञानमनुप्रपन्नः।
बलं त्वासीद् द्वापरे पार्थ कलौ कृष्णः त्वधर्मः क्षितिमेवाजगाम॥अनु.१५८/१०॥