महाभारतसूक्तयः (क्रोधः)

विकिसूक्तिः तः
Jump to navigation Jump to search

क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्॥ आदि.४२/८॥

यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा।
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते॥ आदि.७९/२॥

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति।
देवयानि विजानीहि तेन सर्वमिदं जितम्॥ आदि.७९/३॥

यः संधारयते मन्युं योऽतिवादांस्तितिक्षते।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्॥ आदि.७९/५॥

पुत्रभृत्य सुहृन्मित्र भार्या धर्मश्च सत्यता।
तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम्॥ आदि.७९/६ दा.पा.७॥

अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता।
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः॥ आदि.१७९/४॥

यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति।
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्॥ आदि.१७९/३॥

आशीविषान् नेत्रविषान् कोपयेन्न पण्डितः॥ सभा.६४/२०॥

अव्याधिजं कटुकं तीक्ष्णमुष्णं यशोमुषं परुषं पूतिगन्धि। उद्योग.२७/२३॥

सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य॥ सभा.६४/१८॥

अस्थाने वा यदि स्थाने सततं रजसाऽऽवृतः।
क्रुद्धो दण्डान् प्रणयति विविधान् स्वेन तेजसा॥ वन.२८/१७॥

मित्रैः सह विरोधं च प्राप्नुते तेजसाऽऽवृतः।
आप्नोति द्वेष्यतां चैव लोकात् स्वजनतस्तथा॥ वन.२८/१८॥

यस्मादुद्विजते लोकः कथं तस्य भवो भवेत्॥ वन.२८/२२॥

क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः॥ वन.२९/१॥

क्रुद्धः पापं नरः कुर्यात् क्रुद्धो हन्याद् गुरूनपि।
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते॥ वन.२९/४॥

वाच्यावाच्ये हि कुपितः न प्रजानाति कर्हिचित्।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा॥ वन.२९/५॥

हिंस्यात् क्रोधादवध्यांस्तु वध्यान् सम्पूजयीत च।
आत्मानमपि च क्रुद्धः प्रेषयेद् यमसादनम्॥ वन.२९/६॥

क्रोधः परमदारुणः॥ वन.२९/२॥

अशक्तस्य मन्योर्नियमनं स्मृतम्॥ वन.२९/११॥

मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः॥ वन.२९/१४॥

क्रुध्दो हि कार्यं सुश्रोणि न यथावत् प्रपश्यति॥ वन.२९/१८॥

क्रोधमूलो हि विग्रहः॥ वन.२९/२५॥

मन्युस्तु हन्यात् पुरुषस्य धैर्यम्॥ वन.३४/५॥

क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम॥ वन.२०६/३२॥

क्रोधः सुदुर्जयः शत्रुः॥ वन.३१३/९२॥

धर्मार्थावभिसंत्यज्य संरम्भं योऽनुमन्यते।
हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव॥ उद्योग.१२८/३०॥

शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात्।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥ भीष्म.२९/२३; गीता ५/२३॥

कामक्रोध वियुक्तानां यतीनां यतचेतसाम्।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्॥भीष्म.२९/२६; गीता ५/२६॥

क्रोधो दुःखतरो नृणाम्॥ द्रोण.१४३/५८॥

किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत॥ द्रोण.१५६/९५॥

न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः।
कोपाग्निः शाम्यते राजंस्तोयाऽग्निरिव सागरे॥ शान्ति.१३९/४५॥

लोभात् क्रोधः प्रभवति परदोषैरुदीर्यते॥ शान्ति.१६३/७॥

क्षमया तिष्ठते राजन् क्षमया विनिवर्तते॥
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः।
एतत् पवित्रं ज्ञानानां तथा चैवात्मसंयमः॥ शान्ति.१८९/९॥

वार्यौ सर्वात्मना तौहि श्रेयोघातार्थमुच्छ्रितौ।
नित्यं क्रोधाच्छ्रियं रक्ष्येत् तपोरक्षेच्च मत्सरात्॥ शा.१८९/१०॥

विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः।
शरीरवानुपादत्ते मोहात् सर्वान् परिग्रहान्।
क्रोधलोभादिभिर्भावैर्युक्तो राजसतामसैः॥ शान्ति.२१२/४॥

तस्य माया पिनध्दाङ्गा नष्टज्ञाना विचेतसः।
मानवा ज्ञानसम्मोहात् ततः क्रोधं प्रयान्ति वै॥ शान्ति.२१२/३॥

क्रोधात् काममवाप्याथ लोभमोहौ च मानवाः।
मानदर्पावहंकारमहंकारात् ततः क्रियाः॥ शान्ति.२१३/४॥

क्रियाभिः स्नेह सम्बन्धात्स्नेहाच्छोकमनन्तरम्।
सुख दुःखक्रियारम्भाज्जन्माजन्मकृतक्षणाः॥ शान्ति.२१३/५॥

मोघः श्रमो भवति हि क्रोधनस्य॥ शान्ति.२९९/२७॥

न च रोषादहं साध्वि पश्येयमधिकं तमः॥ शान्ति.३६०/१४॥