महाभारतसूक्तयः (क्षत्रियः)

विकिसूक्तिः तः
Jump to navigation Jump to search

क्षत्रियो बाहुवीर्यस्तु न तथा वाक्वीर्यवान्॥ सभा.२१/५१॥

क्षत्रियस्य महाराज जये वृत्तिः समाहिता।
स वै धर्मस्त्वधर्मो वा स्ववृत्ती का परीक्षणा॥ सभा.५५/७॥

यो न दर्शयते तेजः क्षत्रियः काल आगते।
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत॥ वन.२७/३८॥

तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति।
अप्रियः सर्वभूतानां सोऽमुत्रेह नश्यति॥ वन.२७/४०॥

न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः।
राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः॥ वन.५२/१५॥

धृतिमान् देशकालज्ञः सर्वधर्मविधानवित्।
क्षत्रिय क्षत्रियश्रेष्ठ प्रशास्ति पृथिवीं चिरम्॥ वन.१६२/३॥

श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम॥ वन.२०७/३०॥

इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव।
भयं वो मानुषो भावः परित्यागोऽसतामिव॥ वन.३१३/५२॥

नैष शूरै स्मृतो धर्मः क्षत्रियस्य पलायनम्।
श्रेयस्तु मरणमं युद्धे न भीतस्य पलायनम्॥ विराट.३८/२९॥

क्षत्रियो धनुराश्रित्य यजेच्चैव न याजयेत्॥ विराट.५०/५॥

तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्वा।
यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान् कृत्वा पुण्य कृदावसेद् गृहान्॥उद्योग.२९/२४॥

आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः।
निधनं क्षत्रियस्याजौ वरमेवाहुरुत्तमम्॥ उद्योग.५१/५१॥

क्रव्याद् भय इव भूतानामदान्तेभ्यः सदा भयम्।
येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयम्भुवा॥ उद्योग.६३/१२॥

जयो वधो वा संग्रामे धात्राऽऽदिष्टः सनातनः।
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते॥ उद्योग.७३/४॥

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः॥उद्योग.९०/७५॥ द्रोण.१८६/९॥

युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च॥ उद्योग.१३५/१३॥

स्ववीर्याद् यः पराक्रम्य पाप आह्वयते परान्।
अभीतः पूरयन् वाक्यमेष वै क्षत्रियः पुमान्॥ उद्योग.१६२/५२॥

क्षत्रियस्य तुः धर्मोऽथ यद् युद्धं भृगुनन्दन॥ उद्योग.१८५/११॥

अधर्मः क्षत्रियस्यैष यद् व्याधिमरणं गृहे।
यदयोनिधनं याति सोऽस्य धर्मः सनातनः॥ भीष्म.१७/११॥

धर्म्याद्धि युद्धच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते॥ भीष्म.२६/३१॥

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्॥ भीष्म.२६/३२॥

बाहुभिः क्षत्रियाः शूरा॥ द्रोण.१५८/२३॥

क्षतत्राता क्षताज्जीवन् क्षन्ता स्त्रीष्वपि साधुषु।
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियः॥ द्रोण.१९७/४॥

क्षत्रियस्य हि धर्मोऽयं हन्याद्धन्येत वा पुनः॥ द्रोण.१९७/३८॥

गोप्तारः संगृहीतारो दातारः क्षत्रियाः स्मृताः॥ कर्ण.३२/४५॥

एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम्।
यदाजौ निहतःशेते सद्भिः समभिपूजितः॥ कर्ण.४०/४३-४४॥

क्षात्रं बुधा बाहुबलं वदन्ति॥ कर्ण.७०/१२॥

नान्यत् कर्मास्ति पापीयः क्षत्रियस्य पलायनात्॥ शल्य.३/५७॥

गृहे यत् क्षत्रियस्यापि निधनं तद् विगर्हितम्॥ शल्य.५/३२॥

न हि धर्मः स्मृतो राजन् क्षत्रियस्य प्रतिग्रहः॥ शल्य.३१/५७॥

प्रतिज्ञापालनं धर्मः क्षत्रियस्येह वेद्म्यहम्॥ शल्य.६०/१६॥

निस्तेजाः क्षत्रियोऽधमः।। सौप्तिक.३/२०॥

यज्ञो विद्या समुत्थानमसन्तोषः श्रियं प्रति।
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्॥ शान्ति.२३/१०॥

द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम्॥ शान्ति.२३/११॥

दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्॥ शान्ति.२३/४७॥

चातुराश्रम्यधर्माश्च यतिधर्माश्च पाण्डव।
लोकवेदोत्तराश्चैव क्षात्रधर्मे समाहिताः॥ शान्ति.६४/१॥

प्रत्यक्षं सुखभूयिष्ठमात्मसाक्षिकमच्छलम्।
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम्॥ शान्ति.६४/५॥

आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं पालनं मोक्षणं च।
विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम्॥शान्ति.६४/२७॥

क्षत्रिये संगतं नास्ति न प्रीतिर्न सौहृदम्।
कारणात् सान्त्वयन्त्येते कृतार्थाः संत्यजन्ति च॥ शान्ति.१३९/१६॥

क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु।
अपकृत्यापि सततं सान्त्वयति निरर्थकम्॥ शान्ति.१३९/१७॥

कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः॥ शान्ति.१८८/११॥

क्षत्रज्ञं सेवते कर्म वेदाध्ययन संगतः।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते॥ शान्ति.१८९/५॥

बाहुभ्यां क्षत्रियाः सृष्टास्तस्मात् ते बाहुगर्विताः॥ अनु.१४१ दा.पा.॥

क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः॥ अनु.१४१/४७॥

कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना॥ आश्रमवास.१०/३३॥