महाभारतसूक्तयः (क्षमा)

विकिसूक्तिः तः
Jump to navigation Jump to search

न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा॥ वन.२८/६॥

यो नित्यं क्षमते तात बहून् दोषान् स विन्दति।
भृत्याः परिभवन्त्येनमुदासीनास्तथारयः॥ वन.२८/७॥

अथास्य दारानिच्छन्ति परिभूय क्षमावतः।
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः॥ वन.२८/१४॥

पूर्वोपकारी यस्ते स्यादपराधे गरीयसि।
उपकारेण तत् तस्य क्षन्तव्यमपराधिनः॥ वन.२८/२६॥

अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम्।
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै॥ वन.२८/२७॥

क्षमावतो जयो नित्यम्॥ वन.२९/१४॥

यदि न स्युर्मानुषेषु क्षमिणः पृथिवी समाः।
न स्यात् सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः॥ वन.२९/२५॥

क्षमयेदं धृतं जगत्॥ वन.२९/३७॥

यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा॥ वन.२९/४२॥

क्षान्तिः परा मता॥ वन.२९/४४॥

क्षमा द्वन्द्वसहिष्णुत्वम्॥ वन.३१३/८८॥

क्षमा सत्यं क्षमा दानं क्षमा धर्मः क्षमा तपः।
क्षमावतामयं लोकः परलोकः क्षमावताम्॥ विराट.१६/४२ दा.पा.॥

क्षमा गुणवतां बलम्॥ उद्योग.३४/७५॥

क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा॥ उद्योग.३३/४९॥

क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते॥ उद्योग.३३/५०॥

क्षमैका शान्तिरुत्तमा॥ उद्योग.३३/५२॥

नातः श्रीमत्तरं किंचिदन्यत् पथ्यतमं मतम्।
प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा॥ उद्योग.३९/५८॥

क्षमेदशक्यः सर्वत्र शक्तिमान् धर्मकारणात्।
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता॥ उद्योग.३९/५९॥

तपोबलं तापसानां ब्रह्म ब्रह्मविदां बलम्।
हिंसा बलमसाधूनां क्षमा गुणवतां बलम्॥ उद्योग.३९/६९॥

न दुष्करमिदं पुत्र यत् प्रभुर्घातयेत् परम्।
श्लाघनीया यशस्या च लोके प्रभवतां क्षमा॥ शान्ति.१११/६८॥

तस्मात् क्षमेत बालाय जडान्धबधिराय च।
बलाधिकाय राजेन्द्र तद् दृष्टं त्वयि शत्रुहन्॥ शान्ति.१५७/१३॥

यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम्।
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः॥ शान्ति.२२७/२३॥

श्रेष्ठं ह्येतद् यत्क्षमामाहुरार्याः सत्यं तथैवार्जवमानृशंस्यम्॥ शान्ति.२९९/१२॥

पापीयसः क्षमेतैव श्रेयसः सदृशस्य च।
विमानितो हतोत्क्रुष्ट एवं सिद्धिं गमिष्यति॥ शान्ति.२९९/१८॥

नाहं शप्तः प्रतिशपामि किंचिद् दमं द्वारं ह्यमृतस्येह वेद्मि।
गुह्यं ब्रह्म तदिदं ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किंचित्॥ शा.२९९/२०॥

मानितोऽमानितो वापि पूजितोऽपूजितोऽपि वा।
आक्रुष्टस्तर्जितो वापि क्षमावांस्तीर्थमुच्यते॥ आश्व.९२ दा.पा.अ.XIX॥

क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः।
क्षमाहिंसा क्षमा धर्मः क्षमा चिन्द्रियनिग्रहः॥ आश्व.९२ दा.पा.अ.XIX॥

क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत्। आश्व.९२ दा.पा.अ.XIX॥

क्षमावान् प्राप्नुयात् स्वर्गं क्षमावानाप्नुयाद् यशः।
क्षमावान् प्राप्नुयात् मोक्षं तस्माद् साधुः स उच्यते॥ आश्व.८२ दा.पा.अ.XIX॥