महाभारतसूक्तयः (गुणः)

विकिसूक्तिः तः
Jump to navigation Jump to search

मा हासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम्॥ सभा.७८/१७॥

शक्त्या जयसि राज्योऽन्यानृषीन् धर्मोपसेवया।
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे॥ सभा.७८/१८॥

तथा विसर्गे कौबेरे वारुणे चैव संयमे।
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम्॥ सभा.७८/१९॥

भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात्।
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम्॥ सभा.७८/२०॥

अब्रुवन् कस्यचिन्निदामत्मपूजामवर्णयन्।
न कश्चिद् गुणसम्पन्नः प्रकाशो भुवि दृश्यते॥ वन.२०७/४९॥

सत्यवादी लभेतायुरनायासमथार्जवम्।
अक्रोधनोऽनसूयश्च निर्वृत्तिं लभते पराम्॥ वन.२५९/२२॥

दान्तः शमपरः शश्वत् परिक्लेशं न विन्दति।
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम्॥ वन.२५९/२३॥

संविभक्ता च दाता च भोगवान् सुखवान् नरः।
भवत्यहिंसकश्चैव परमारोग्यमश्नुते॥ वन.२५९/२४॥

मान्यमानयिता जन्म कुले महति विन्दति।
व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः॥ वन.२५९/२५॥

शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा।
प्रादुर्भवति तद्योगात् कल्याणमतिरेव सः॥ वन.२५९/२६॥
षडेते तु गुणाः पुंसा न हातव्याः कदाचन।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः॥ उद्योग.३३/८१॥

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥ उद्योग.३५/५२; उद्योग.३७/३१॥

इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ उद्योग.३५/५६॥

धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा।
मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः॥ उद्योग.३८/३८॥

न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।
यथा सत्यानृशंसाभ्यां धर्मणैवोद्यमेन च॥ भीष्म.२१/१०॥

गुणवन्तः हि यो द्वेष्टि निर्गुणं कुरुते प्रभुम्।
स शोचति नृपः कृष्ण क्षिप्रमेवागते क्षये॥ कर्ण.७४/११॥

नात्यन्तं गुणवत् किंचिन्न चाप्यत्यन्तनिर्गुणम्।
उभयं सर्वकार्येषु दृश्यते साध्वसाधु वा॥ शान्ति.१५/५०॥

वाग्देह मनसां शौचं क्षमा सत्यं धृतिः स्मृतिः।
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुनाञ्छुभान्॥ शा.२१४/६॥

आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया।
वृद्धशुश्रूषया शक्र पुरुषो लभते महत्॥ शान्ति.२२२/३४॥

दमः क्षमा धृतिस्तेजः संतोषं सत्यवादिता।
ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः॥ शान्ति.२९०/२०॥

सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामतिसेवमानः।
स्वाध्यायनित्योऽस्पृहयन् परेषामेकान्तशील्यूर्ध्वगतिर्भवेत सः॥ शान्ति.२९९/२९॥

लोको ह्यार्यगुणानेव भूयिष्ठं तु प्रशंसति॥ अनु.१२२/२॥

न जात्या पूतितो राजन् गुणाः कल्याणकारणाः॥आश्व.९२ दा.पा.अ.XX॥

एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत।
निर्वैरता महाराज सत्यमक्रोध एव च॥ आश्रमवास २८/९॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(गुणः)&oldid=15713" इत्यस्माद् प्रतिप्राप्तम्