महाभारतसूक्तयः (गुरुपूजा)

विकिसूक्तिः तः
Jump to navigation Jump to search

समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात् प्राप्य विद्यां सविद्यः॥ आदि.७६/६७॥

यः श्रोत्रयोरमृतं संनिषिञ्चेद् विद्यामविद्यस्य यथा ममायम्।
तं मन्येऽहं पितरं मातरं च तस्मै न दुह्येत् कृतमस्य जानन्॥ आदि.७६/६३॥

ॠतस्य दातारमनुत्तमस्य निधिं निधीनामपि लब्धविद्याः।
ये नाद्रियन्ते गुरुमर्चनीयं पापाल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः॥ आदि.७६/६४॥

शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि।
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत्॥ विराट.५१/१५॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते॥ उद्योग.१७८/४८॥

उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः।
प्रयच्छन्तीह ये कामान् देवत्वमुपयान्ति ते॥ द्रोण.१४७/२२॥

न कथंचन कौरव्य प्रहर्तव्यं गुराविति॥ द्रोण १४७/२५॥

गुरुर्गरीयान् पितृतो मार्तृतश्चेति मे मतिः॥ शान्ति.१०८/१८॥

उभौ हि मातपितरौ जन्मन्येवोपयुज्यतः॥
शरीरमेव सृजतः पिता माता च भारत॥ शान्ति.१०८/१९॥

आचार्यशिष्टा या जातिः सा दिव्या सा जरामरा॥
यश्चावृणोत्यत्यवितथेन कर्मणा ॠतं ब्रुवन्ननृतं सम्प्रयच्छन्।
तं वै मन्येत पितरं मातरं च तस्मै न दुह्येत् कृतमस्य जानन्॥ शा.१०८/२२॥

विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्यासन्ना मनसा कर्मणा वा।
तेषां पापं भ्रूणहत्याविशिष्टं नान्यस्तेभ्यः पापकृदस्ति लोके।
यथैव ते गुरुभिर्भावनीयास्तथा तेषां गुरवोऽभ्यर्चनीयाः॥ शा.१०८/२३॥

मातृतः पितृश्चैव तस्मात् पूज्यतमो गुरुः॥ शा.१०८/२६॥

केनचिन्न च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत्।
न च माता न च पिता मन्यते यादृशो गुरुः॥ शान्ति.१०८/२७॥

न तेऽवमानमर्हन्ति न तेषां दूषयेत् कृतम्॥ शान्ति.१०८/२९॥

मित्रदुहः कृतघ्नस्य स्त्रीघ्नस्य गुरुघातिनः।
चतुर्णाः वयमेतेषां निष्कृतिं नानुशुश्रुम॥ शान्ति.१०८/३२॥

सर्वार्तियुक्ता गुरवो भवन्ति॥ अनुशासन१/२४॥

उपलभ्य तु विज्ञानं ज्ञानं वाप्यनुसूयकः।
तथैव वर्तेद् गुरुषु भूयांसं च समाहितः॥ अनुशासन.९६ दा.पा.अ.I॥
यथावमन्येत गुरुं तथा तेषु प्रवर्तते।
व्यर्थमस्य श्रुतं भवति ज्ञानमज्ञानतां व्रजेत्॥ अनु. ९६ दा.पा.अ.I॥
शरीरमेतौ सृजतः पिता माता च भारत॥ अनुशासन१०५/१८॥

आचार्यशास्ता या जातिः सा सत्या सा जरामरा॥
गुरूणां च गरीयांसस्त्रयो लोकेषु पूजिताः।
उपाध्यायः पिता माता सम्पूज्यन्ते विशेषतः॥ अनु.१४५ दा.पा.अ.XI॥

उपाध्यायस्य यः पुत्रो यश्च तस्य भवेद् गुरुः।
ॠत्विग् गुरुः पिता चेति गुरवः सम्प्रकीर्तिताः॥ अनु.१४५ दा.पा.अ.XI॥

ज्येष्ठो भ्राता नरेन्द्रश्च मातुलः श्वसुरस्तथा।
भयत्राता च भर्ता च गुरवस्ते प्रकीर्तिताः॥ अनु.१४५ दा.पा.अ.XI॥

यद् यदिच्छन्ति ते कर्तुमस्वतन्त्रस्तदाचरेत्।
वेदानुशासनसमं गुरुशासनमिष्यते॥ अनु.१४५ दा.पा.अ.XI॥

कलहांश्च विवादांश्च गुरुभिः सह वर्जयेत्।
कैतवं परिहासांश्च मन्युकामाश्रयांस्तथा॥ अनु.१४५ दा.पा.अ.XI॥

स्वमर्थं स्वशरीरं च गुर्वर्थे संत्यजेत् बुधः।
विवादं धनहेतोर्वा मोहाद् वा तैर्न रोचयेत्॥ अनु.१४५ दा.पा.अ.XI॥

गुरुभ्यस्त्वासनं देयमभिवाद्याभिपूज्य च।
गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया॥ अनु.१६२/४४॥

वृद्धान् नाभिभवेज्जातु न चैतान् प्रेषयेदिति।
नासीनः स्यात् स्थितेष्वेवमायुरस्य न रिष्यते॥ अनु.१६२/४५॥

तीर्थानां गुरवस्तीर्थं चोक्षाणां हृदयं शुचि।
दर्शनानां परः ज्ञानं सन्तोषः परमं सुखम्॥ अनु.१६२/४७॥

श्रुतं प्राप्नोति हि नरः सततं वृद्धसेवया॥ अनु.१६२/४८॥

दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते॥ आश्व.५६/२१॥

यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।
पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः॥ आश्व.१२ दा.पा.अ.XIII॥

लौकिकं वैदिकं वापितथाऽऽध्यात्मिकमेव वा।
यस्माज्ज्ञानमिदं प्राप्तं तं पूर्वमभिवादयेत्॥ आश्व.१२ दा.पा.अ.XV॥

निषेकादीनि कर्माणि यः करोति यथाविधिः।
अध्यापयति चैवैनं स विप्रो गुरुरुच्यते॥ आश्व.१२ दा.पा.अ.XV॥

कृत्वोपनयनं वेदान् योऽध्यापयति नित्यशः।
सकल्पान् सरहस्यान् स चोपाध्याय उच्यते॥ आश्व.१२ दा.पा.अ.XV॥

साङ्गाश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च।
विवृणोति च मन्त्रार्थानाचार्यः सोऽभिधीयते॥ आश्व.१२ दा.पा.अ.XV॥

उपाध्यायाद् दशाचार्य आचार्याणां शतं पिता।
पितुः शतगुणं माता गौरवेणातिरिच्यते॥ आश्व.१२ दा.पा.अ.XV॥

एतेषामपि सर्वेषां गरीयान् ज्ञानदो गुरुः।
गुरोः परतरं किंचिन्न भूतं न भविष्यति॥ आश्व.१२ दा.पा.अ.XV॥