महाभारतसूक्तयः (गृहस्थाश्रमः)

विकिसूक्तिः तः
Jump to navigation Jump to search

धर्मागतं प्राप्य धनं यजेत दद्यात् सदैवातिथीन् भोजयेच्च।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत् पुराणी॥ आदि.९१/३॥

देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥ वन.२/५५॥

चक्षुर्दद्यान्मनो दद्याद् मनो दद्यात् सुभाषितम्।
उत्थाय चासनं दद्यादेष धर्मः सनातनः।
प्रत्युत्थायाभिगमनं कुर्यान्मानेन चार्चनम्॥ वन.२/५६॥

आत्मार्थं पाचयेन्नानं न वृथा घातयेत् पशून्।
न च तत् स्वयमश्नीयाद् विधिवद् यन्न निर्वपेत्॥ वन.२/५८॥

विघसाशी भवेत् तस्मान्नित्यं चामृतभोजनः।
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्॥ वन.२/६०॥

स्वदारनिरतो ह्याशु नरो भद्राणि पश्यति॥ विराट.१४/३४ दा.पा.॥

परदाररतो मर्त्यो न च भद्राणि पश्यति॥ विराट.१४/३४ दा.पा.॥

परदारे न ते बुद्धिर्जातु कार्या कथंचन॥ विराट.१४/३६॥

आश्रमांस्तुलया सर्वान् धृतानाहुर्मनीषिणः।
एकतश्च त्रयो राजन् गृहस्थाश्रम एकतः॥ शान्ति.१२/१२॥

समीक्ष्य तुलया पार्थ कामं स्वर्गं च भारत।
अयं पन्था महर्षीणामियं लोकविदं गतिः॥ शान्ति.१२/१३॥

गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा।
भृत्याश्चैवोपजीवन्ति तान् भरस्व महीपते॥ शान्ति.२३/४॥

वयांसि पशवश्चैव भूताति च जनाधिप।
गृहस्थैव धार्यन्ते तस्माच्छ्रेष्ठो गृहश्रमः॥ शान्ति.२३/५॥

सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः।
तं चराद्य विधिं पार्थ दुश्चरं दुर्बलेन्द्रियैः॥ शान्ति.२३/६॥

देवानृषीन् मनुष्यांश्च पितृन् गृह्याश्च देवताः॥ शान्ति.३६/३४॥

पूजयित्वा ततः पश्चाद् गृहस्थो भोक्तुमर्हति।
यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत्॥ शान्ति.३६/३५॥

अधीत्य वेदान् कृतसर्वकृत्यः सन्तानमुत्पाद्य सुखानि भुक्त्वा।
समाहितः प्रचरेद् दुष्करं यो गार्हस्थ्यधर्मं मुनिधर्मजुष्टम्॥ शान्ति.६१/१०॥

स्वदारतुष्टस्त्वृतुकालगामी नियोगसेवी न शठो न जिह्मः।
मिताशनो देवरतः कृतज्ञः सत्यो मृदुश्चानृशंसः क्षमावान्॥ शान्ति.६१/११॥

दान्तो विधेयो हव्यकव्येऽप्रमत्तो ह्यन्नस्य दाता सततं द्विजेभ्यः।
अमत्सरी सर्वलिङ्गप्रदाता वैताननित्यश्च गृहाश्रमी स्यात्॥ शान्ति.६१/१२॥

अपि चात्र् यज्ञक्रियाभिर्देवताः प्रीयन्ते। निवापेन पितरो
विद्याभ्यास श्रवण धारणेन ॠषयः। अपत्योत्पादनेन प्रजापतिरिति॥ शान्ति.१९१/१३॥

गृहस्थस्त्वेष धर्माणां सर्वेषां मूलमुच्यते।
यत्र पक्वकषायो हि दान्तः सर्वत्र सिध्द्यति॥ शान्ति.२३४/६॥

प्रजावाञ्श्रोत्रियो यज्वा मुक्त एव ॠणैस्त्रिभिः।
अथान्यानाश्रमान् पश्चात् पूतो गच्छेत कर्मभिः॥ शान्ति.२३४/७॥

यत् पृथिव्यां पुण्यतमं विद्यात् स्थानं तदावसेत्।
यतेत तस्मिन् प्रामाण्यं गन्तुं यशसि चोत्तमे॥ शान्ति.२३४/८॥

तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ शान्ति.२४३/११॥

भ्राता ज्येष्ठः समःपित्रा भार्या पुत्रः स्वका तनुः।
छाया स्वा दासवर्गश्च दुहिता कृपणं परम्॥ शान्ति.२४३/२०॥

तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः।
गृहधर्मपरो विद्वान् धर्मशीलो जितक्लमः॥ शान्ति.२४३/२१॥

गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते॥ शान्ति.२६९/५॥

यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः॥ अनु.१४१ दा.पा.॥

एवं गार्हस्थ्यमाश्रित्य वर्तन्त इतराश्रमाः॥ शान्ति.२६९/६॥

गृहस्थ एव यजते गृहस्थस्तप्यते तपः।
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेजते॥ शान्ति.२६९/७॥

अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा।
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मति॥ शान्ति.२९५/३५॥

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्॥ शान्ति.२९५/३९॥

ॠषयः पितरो देवा मनुष्याश्चैव माधव।
इज्याश्चार्चनीयाश्च यथा चैव निबोध मे॥ अनु.९७/५॥

सदा यज्ञेन देवाश्च सदाऽऽतिथ्येन मानुषाः।
छन्दतश्च यथा नित्यमर्हान् भुञ्जीत नित्यशः॥ अनु.९७/६॥

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि।
वैश्वदेवं हि नामैतत् सायं प्रातर्विधीयते॥ अनु.९७/२२॥

पत्नी रजस्वला या च नाभिगच्छेन्न चाह्वयेत्॥ अनु.१०४/१४९॥

स्नातां चतुर्थे दिवसे रात्रौ गच्छेद् विचक्षणः।
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान् भवेत्॥ अनु.१०४/१५०॥

यो भर्ता वासिता तुष्टो भर्तुस्तुष्टा च वासिता।
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते॥ अनु.१२२/१७॥

अहिंसा सत्यवचनं सर्वभूतानुकम्पनम्।
शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः॥ अनु.१४१/२५॥

आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः।
विघसाशी यताहारो गृहस्थः सत्यवाक् शुचिः॥ अनु.१४१/३९॥

गृहस्थः प्रवरस्तेषां गार्हस्थ्यं धर्ममाश्रितः।
पञ्चयज्ञक्रिया शौजं दारतुष्टिरतन्द्रिता।
ॠतुकालाभिगमनं दानयज्ञतपांसि च।
अविप्रवासस्तस्येष्टः स्वाध्यायश्चाग्निपूर्वकम्॥ अनु.१४१ दा.पा.॥

गार्हस्थ्यं तीर्थमुच्यते॥ आश्व.९२ दा.पा.अ.XIX॥

शरीरमेकं दम्पत्योर्विधात्रा पूर्वनिर्मितम्।
तस्मात् स्वादरनिरतो ब्रह्मचारी विधीयते॥ अनु.१४१ दा.पा.॥

पञ्चयज्ञविशुध्दात्मा सत्यवागनसूयकः।
दाता ब्राह्मणसत्कर्ता सुसंसृष्टनिवेशनः॥ अनु.१४१/७१॥

अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा।
अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः॥ अनु.१४१/७२॥

पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा।
दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः॥ अनु.१४१/७३॥

आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः।
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च॥ आश्व.४४/१७॥

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः।
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः॥ आश्व.४५/१३॥