महाभारतसूक्तयः (गौः)

विकिसूक्तिः तः
Jump to navigation Jump to search

गावः प्रतिष्ठमानानाम्॥ वन.३१३/५६॥

सोमो गवामृतम्॥ वन.३१३/६६॥

गन्धेन गावः पश्यन्ति॥ उद्योग.३४/३४॥

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा।
अथ या सुदुहा राजन् नैव तां वितुदन्त्यपि॥ उद्योग.३४/३५॥

प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत्॥ भीष्म.३/२०॥

प्रहरेन्न नरेन्द्रेषु न हन्याद् गां तथैव च।
भ्रूणहत्यासमं चैव उभयं यो निषेवते॥ अनुशासन.२२/३०॥

गौभिस्तुल्यं न पश्यामि धनं किंचिदिहाच्युत॥ अनु.५१/२६॥

गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते।
अन्नमेव सदा गावो देवानां परमं हविः॥ अनुशासन.५१/२८॥

अमृतं ह्यव्ययं दिव्यं क्षरन्ति च वहन्ति च।
अमृतायतनं चैताः सर्वलोकनमस्कृताः॥ अनुशासन.५१/३०॥

तेजसा वपुषा चैव गावो वह्निसमा भुवि।
गावो हि सुमहत् तेजः प्राणिनां च सुखप्रदाः॥ अनु.५१/३१॥

निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम्।
विराजयति तं देशं पापं चास्यापकर्षति॥ अनुशासन.५१/३२॥

गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः।
गावः कामदुहो देव्यो नान्यत् किंचित् परं स्मृतम्॥ अनुशासन.५१/३३॥

पयसा हविषा दध्ना शकृता चाथ चर्मणा।
अस्थिभिश्चोपकुर्वन्ति श्रृंगैर्बालैश्च भारत॥ अनुशासन.६६/३९॥

अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः।
तस्माद् ददाति यो धेनुममृतं स प्रयच्छति॥ अनुशासन.६६/४६॥

न वधार्थं प्रदातव्या न कीनाशे न नास्तिके।
गौजीविने न दातव्या तथा गौर्भरतर्षभ॥ अनुशासन.६६/५१॥

पितृसद्मानि सततं देवतायतनानि च।
पूयन्ते शकृता यासां पूतं किमधिकं ततः॥ अनुशासन.६९/११॥

कल्मषं गुरुशुश्रूषा हन्ति मानो महद् यशः।
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः॥ अनुशासन.६९/१९॥

लोकान् सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयम्भुवा।
वृत्त्यर्थं सर्वभूतानां तस्मात् ता मातरः स्मृताः॥ अनु.१४५ दा.पा.अ.XI॥

लोकज्येष्ठा लोकवृत्त्यां प्रवृत्ता मय्यायत्ताः सोमनिष्यन्दभूताः।
सौम्याः पुण्यदाः कामदाः प्राणदाश्च तस्मात् पूज्याः पुण्यकामैर्मनुष्यैः॥ अनु.१४५ दा.पा.अ.XI॥

नृशंसस्य कृतघ्नस्य लुब्धस्यानृतवादिनः।
हव्यकव्यव्यपेतस्य न दद्याद् गाः कथंचन॥ अनु.१४५ दा.पा.अ.XI॥

गवां मूत्रपुरीषाणि नोद्विजेत कदाचन।
न चासां मांसमश्नीयाद् गोषु भक्तः सदा भवेत्॥ अनु.१४५ दा.पा.अ.XI॥

गवामुभयतः काले नित्यं स्वस्त्ययनं वदेत्।
न चासां चिन्तयेत् पापमिति धर्मविदो विदुः॥ अनु.१४५ दा.पा.अ.XI॥

गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः।
कथंचिन्नावमन्तव्या गावो लोकस्य मातरः॥ अनु.१४५ दा.पा.अ.XI॥

गोषु पूजा च भक्तिश्च नरस्यायुष्यतां वहेत्॥ अनु.१४५ दा.पा.अ.XI॥

न क्षुत्तृष्णाश्रमश्रान्तान् वाहयेद् विकलेन्द्रियान्।
अतृप्तेषु न भुञ्जीयात् पबेत् पीतेषु चोदकम्॥ आश्व.९२ दा.पा.अ.X॥

पितरो वृषभा ज्ञेया गावो लोकस्य मातरः। आश्व.९२ दा.पा.अ.XIV॥

सभा प्रपा गृहाश्चाषि देवतायतनानि च।
शुध्द्यन्ति शकृता यासां किं भूतमधिकं ततः॥ आश्व.९२ दा.पा.अ.XIV॥

गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च।
सुवर्णं रजतं चैव पात्रकुम्भार्थमेव च॥ आश्व.९२ दा.पा.अ.XVI॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(गौः)&oldid=15717" इत्यस्माद् प्रतिप्राप्तम्