महाभारतसूक्तयः (चरित्रम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्वदर्शिनः॥ वन.१८०/३३॥

वृत्तं यत्नेन सरंक्ष्यं ब्राह्मणेन विशेषतः।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः॥ वन.३१३/१०८॥

न कुलं कृतहीनस्य प्रमाणमिति मे मतिः।
अन्तेष्वपि जातानां वृत्तमेव विशिष्यते॥ उद्योग.३४/४१॥

कुलं वृत्तेन रक्ष्यते॥ उद्योग.३४/३९॥

सर्वं शीलवता जितम्॥ उद्योग.३४/४७॥

शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः॥ उद्योग.३४/४८॥

वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणोवृत्तस्तु हतो हतः॥ उद्योग.३६/३०॥

गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया।
कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः॥ उद्योग.३६/३१॥

वृत्तेन हि भवत्यार्यो न धनेन न विद्यया॥ उद्योग.९०/५३॥

आचारः फलते धर्ममाचारः फलते धनम्।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम्॥ उद्योग.११३/१५॥

शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः।
न हि किंचिदसाध्यं वै लोके शीलवतां भवेत्॥ शान्ति.१२४/१५॥

धर्मः सत्यं तथा वृत्तं बलं चैव तथाप्यहम्।
शीलभूता महाप्राज्ञ सदा नास्त्यत्र संशयः॥ शान्ति.१२४/६२॥

अद्रोहः सर्वभूतेशु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च शीलमेतत् प्रशस्यते॥ शान्ति.१२४/६६॥

यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम्।
अपत्रपेत वा येन न तत् कुर्यात् कथंचन॥ शान्ति.१२४/६७॥

तत्तु कर्म तथा कुर्याद् येन श्लाघ्येत संसदि।
शीलं समासेनैतत् ते कथितं कुरुसत्तम॥ शान्ति.१२४/६८॥

आचारमेव मन्यन्ते गरीयो धर्मलक्षणम्॥ शान्ति.१३२/१५॥

न बान्धवा न च वित्तं न कौल्यं न च श्रुतं न च मन्त्रा न वीर्यम्।
दुःखात् त्रातुं सर्व एवोत्सहन्ते परत्र शीलेन तु यान्ति शान्तिम्॥ शान्ति.२८६/१५॥

आचारल्लभते ह्यायुराचाराल्लभते श्रियम्।
आचारात् कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च॥ अनुशासन.१०४/६॥

दुराचारो हि पुरुषो नेहायुर्विन्दते महत्॥ अनुशासन.१०४/७॥

आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः।
साधूनां च यथावृत्तमेतदाचारलक्षणम्॥ अनुशासन.१०४/९॥

अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणम्।
भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम्॥ अनुशासन.१०४/१०॥

सर्वलक्षणहीनोऽपि समुदाचारवान् नरः।
श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति॥ अनुशासन.१०४/१३॥

अक्रोधनः सत्यवादी भूतानामविहिंसकः।
अनसूयुरजिह्मश्च शतं वर्षाणि जीवति॥ अनुशासन.१०४/१४॥

आचारो भूतिजननः आचारः कीर्तिवर्धनः।
आचाराद् वर्धते ह्यायुराचारो हन्त्यलक्षणम्॥ अनुशासन.१०४/१५४॥

आगमानां हि सर्वेषाम् आचारः श्रेष्ठ उच्यते।
आचार प्रभवो धर्मो धर्मादायुर्विवर्धते॥ अनुशासन.१०४/१५५॥