महाभारतसूक्तयः (ज्ञानम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

राजसिकज्ञानम्[सम्पाद्यताम्]

पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥ भीष्म.४२/२१॥

तामसिकज्ञानम्[सम्पाद्यताम्]

यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम्॥
अतत्त्वार्थवदल्पं च तत् तामसमुदाहृतम्॥ भीष्म.४२/२२॥

सात्त्विकज्ञानम्[सम्पाद्यताम्]

सर्वभूतेषु येनैकं भावमव्ययमीक्षते।
अनिभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥ भीष्म.४२/२०॥

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।। भीष्म.२८/३३॥ गीता.४/३३॥

सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि॥ भीष्म.२८/३६॥ गीता.४/३६॥

ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन॥ भीष्म.२८/३७॥ गीता.४/३७॥

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते॥ भीष्म.२८/३८॥ गीता.४/३८॥

ज्ञानं लब्ध्वा पराः शान्तिमचिरेणाधिगच्छति॥भीष्म.२८/३९॥ गीता.४/३९॥

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥भीष्म.२९/१५॥ गीता.५/१५॥

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥भीष्म.३७/७॥ गीता.१३/७॥

इन्द्रियार्थेषु वैराग्यमनहंकार एव च।
जन्म मृत्यु जरा व्याधि दुःख दोषानुदर्शनम्॥भीष्म.३७/८॥ गीता.१३/८॥

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु॥भीष्म.३७/९॥ गीता.१३/९॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी।
विविक्तदेशसेवित्वमरतिर्जनसंसदि॥ भीष्म.३७/१०॥ गीता.१३/१०॥

अध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शनम्।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥ भीष्म.३७/११॥ गीता.३/११॥

ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव॥ शान्ति.२६/६॥

उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम्।
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा॥ शान्ति.१७४/५८॥

एकस्थूणं नवद्वारमपिधास्याम्यगारकम्।
का हि कान्तमिहायान्तमयं कान्तेति मंस्यते॥ शान्ति.१७४/५९॥

अकामां कामरूपेण धूर्ता नरकरूपिणः।
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि॥ शान्ति.१७४/६०॥

अनर्थो हि भवेदर्थो दैवात् पूर्वकृतेन वा।
सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया॥ शान्ति.१७४/६१॥

सुखं निराशः स्वपिति नैराश्यं परमं सुखम्।
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला॥ शान्ति.१७४/६२॥

इष्टं त्वनिष्टं च न मां भजेतेत्येतत्कृते ज्ञानविधिः प्रवृत्तः॥शान्ति.२०१/११॥

नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि।
ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः॥ शान्ति.२१४/४॥

तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम्।
विपक्वबुद्धिः कालेन आदत्ते मानसं बलम्॥ शान्ति.२१४/२८॥

ज्ञानमेव महाराज सर्वदुःखविनाशनम्॥ शान्ति.२२२/४४॥

ज्ञानवानेव कर्माणि कुर्वन् सर्वत्र सिध्यति॥ शान्ति.२३८/१॥

कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः॥ शान्ति.२४१/७॥

कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः।
विद्यया जायते नित्यमव्यक्तं ह्युव्ययात्मकम्॥ शान्ति.२४१/८॥

कर्मणा फलमाप्नोति सुखदुःखे भवाभवौ।
विद्यया तदवाप्नोति यत्र गत्वा न शोचति॥ शान्ति.२४१/११॥

द्वन्द्वैर्न बाध्यन्ते मानसेन च कर्मणा।
समाः सर्वत्र मैत्राश्च सर्वभूत हिते रताः॥ शान्ति.२४१/१४॥

तमो रजश्च सत्त्वं च विद्धि जीवगुणात्मकम्।
जीवमात्मगुणं विद्यादात्मानं परमात्मनः॥ शान्ति.२४१/१९॥

ज्ञानं प्लावयते सर्वं यो ज्ञानं ह्यनुवर्तते।
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः॥ शान्ति.२६९/५०॥

शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः।
कषाये कर्मभिः पक्वे रसज्ञाने च तिष्ठति॥ शान्ति.२७०/३८॥

असङ्गः श्रेयसो मूलं ज्ञानं चैव परा गतिः।
चीर्णं तपो न प्रणश्येद् वापः क्षेत्रे न नश्यति॥ शान्ति.२९८/३॥

न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत्।
न विना गुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः॥ शान्ति.३२६/२२॥

गुरु प्लाविता तस्य ज्ञानं प्लव इहोच्यते।
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्॥ शान्ति.३२६/२३॥

शक्यते ह्यागमादेव गतिं प्राप्तुमनामयम्॥ अनुशासन ९६ दा.पा.॥

न चाप्यक्षीणपापस्य ज्ञानं भवति देहिनः।
ज्ञानोपलब्धिर्भवति कृतकृत्यो यदा भवेत्॥ अनु.९६ दा.पा.॥

एवमेव हि नोत्सेको कर्तव्यो ज्ञानसम्भवः।
फलं ज्ञानस्य हि शमः प्रशमाय यतेत् सदा॥ अनु.९६ दा.पा.॥

प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः।
तथा निष्किंचनत्वं च मनसश्च प्रसन्नता॥ अनु.१०८/११॥

वृत्तशौचं मनःशौचं तीर्थशौचमतः परम्।
ज्ञानोप्तन्नं च यच्छौचं तच्छौचं परमं स्मृतम्॥ अनु.१०८/१२॥

अध्यात्मतत्त्वविज्ञानं ज्ञानमित्यभिधीयते॥ अनु.१४५ दा.पा.अ.XIV॥

न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित्॥ अनु.१४६/२३॥

हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम्।। अनु.१६२/८॥

सुखःदुखे यथा सम्पगनित्ये यः प्रपश्यति।
कायं चामेध्यसंघातं विनाशं कर्मसंहितम्॥ आश्व.१८/३१॥

यच्च किंचित्सुखं तच्च दुःखं सर्वमिति स्मरन्।
संसार सागरं घोरं तरिष्यति सुदुस्तरम्॥ आश्व.१८/३२॥

ज्ञानस्यन्तो न विद्यते॥ आश्व.४४/२१॥

ज्ञानं ब्रह्म परं विदुः॥ आश्व.४७/१॥

ज्ञानेन तपसा चैव धीराः पश्यन्ति तत् परम्॥ आश्व.४७/३॥

तपः प्रदीप इत्याहुराचारो धर्मसाधकः।
ज्ञानं वै परमं विद्यात् संन्यासं तप उत्तमम्॥ आश्व.४७/५॥

ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चितदर्शिनः॥ आश्व.५०/३॥

तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्विषैः।
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः॥ आश्व.५१/३२॥

गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः।
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः॥ आश्व.५१/३७॥