सामग्री पर जाएँ

महाभारतसूक्तयः (तपस्या)

विकिसूक्तिः तः

तपसा हि परं नास्ति तपसा विन्दते फलम्॥ वन.९१/१९॥

लोका हि सर्वे तपसा ध्रयन्ते॥ वन.१०१/२१॥

अग्निहोत्रं वनेवासः शरीरपरिशोषणम्।
सर्वाण्येतानि मिथ्या स्युर्यदि भावो न निर्मलः॥ वन.२००/९७॥

ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः।
ते तपन्ति महात्मनो न शरीरस्य शोषणम्॥ वन.२००/९९॥

तिष्ठन् गृहे चैव मुनिर्नित्यं शुचिरलंकृत।
यावज्जीवं दयावांश्च सर्वपापैः प्रमुच्यते॥ वन.२००/१०१॥

तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः॥ वन.२०९/५३॥

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः।
एतत् पवित्रं लोकानां तपो वै संक्रमो मतः॥ वन.२१३/२८॥

नातप्ततपसो लोके प्राप्नुवन्ति महासुखम्।
सुख दुःखे हि पुरुषः पर्यायेण सेवते॥ वन.२५९/१३॥

नासाध्यं तपसः किंचिदिति बुद्ध्यस्व भारत॥ वन.२५९/१७॥

मनसश्चेन्द्रियाणां चाप्यैकाग्य्रं निश्चितं तपः॥ वन.२६०/२५॥

तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः॥ उद्योग.४३/१३॥

एतत् पापहरं पुण्यं जन्ममृत्युजरापहम्॥ उद्योग.४३/४०॥

परोक्षं जायते तपः॥ उद्योग.४३/४८॥

तपः पश्यति तं प्रभुम्॥ उद्योग.४३/५८॥

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥ भीष्म.४१/१४;गीता.१७/१४॥

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥ भीष्म.४१/१५; गीता.१७/१५॥

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥ भीष्म.४१/१६; गीता.१७/१६॥

श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥ भीष्म.४१/१७; गीता.१७/१७॥

सत्कारमानपूजार्थं तपो दम्भेन चैव यत्।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥भीष्म.४१/१८; गीता.१७/१८॥

मूढग्राहेणात्मनो यत् पीडया क्रियते तपः।
परस्योत्सादनार्थं वा तत् तामसमुदाहृतम्॥भीष्म.४१/१९;गीता.१७/१९॥

अहिंसा सत्यवचनमानृशंस्यं दमो घृणा।
एतत् तपो विदुर्धीरा न शरीरस्य शोषणम्॥ शान्ति.७९/१८॥

सर्वज्ञाः हि तपोधनाः॥ शान्ति.१२६/१४॥
तपश्चर्यापरः सद्यः पापाद् विपरिमुच्यते॥ शान्ति.१५२/२६॥

सर्वमेतत् तपो मूलं कवयः परिचक्षते।
न ह्यतप्ततपा मूढः क्रियाफलमवाप्नुते॥ शान्ति.१६१/१॥

प्रजापतिरिदं सर्वं तपसैवासृजत् प्रभुः।
तथैव वेदानृषयस्तपसा प्रतिपेदिरे॥ शान्ति.१६१/२॥

तपसैव ससर्जान्नं फलमूलानि यानि च।
त्रींल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः॥ शान्ति.१६१/३॥

तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः।
निवृत्त्या वर्तमानस्य तपो नानशनात् परम्॥ शान्ति.१६१/७॥

अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः।
एतेभ्यो हि महाराज तपो नानशनात् परम्॥ शान्ति.१६१/८॥

न दुष्करतरं दानान्नातिमातरमाश्रयः।
त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः॥ शान्ति.१६१/९॥

इमानीष्टविभागानि फलानि तपसः सदा।
तपसा शक्यते प्राप्तुं देवत्वमपि निश्चयात्। शान्ति.१६१/१३॥

त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता।
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि॥ शान्ति.२१७/१५॥

प्रकाशस्तपसो ज्ञानं लोके संशब्दितं तपः।
रजस्तमोघ्नं यत् कर्म तपसस्तत् स्वलक्षणम्॥ शान्ति.२१७/१६॥

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते।
वाङ्मनोनियमः सम्यङ् मानसं तप उच्यते॥ शान्ति.२१७/१७॥

मासपक्षोपवासेन मन्यन्ते यत् तपो जनाः।
आत्मतन्त्रोपघातस्तु न तपस्तत्सतां मतम्॥ शान्ति.२२१/४॥

त्यागश्च संनतिश्चैव शिष्यते तप उत्तमम्।
सदोपवासी च भवेद् ब्रह्मचारी सदा भवेत्॥ शान्ति.२२१/५॥

तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः।
तेन सर्वानवाप्नोति यान् कामान् मनसेच्छति॥ शान्ति.२३२/२२॥

तपसा तदवाप्नोति यद भूतं सृजते जगत्।
स तद भूतश्च सर्वेषां भूतानां भवति प्रभुः॥ शान्ति.२३२/२३४॥

ॠषयस्तपसा वेदानध्यैषन्त दिवानिशम्।
अनादिनिधना विद्या वागुत्सृष्टा स्वयम्भुवा॥ शान्ति.२३२/२४॥

तपो धर्मेन संयुक्तस्तपोनित्यः सुशंसितः।
तेन सर्वानवाप्नोति कामान् यान् मनसेच्छति॥ शान्ति.२३८/९॥

तपसा तद्वाप्नोति यद् भूत्वा सृजते जगत्।
तद् भूतश्च ततः सर्वभूतानां भवति प्रभुः॥ शान्ति.२३८/१०॥

तपः सर्वगतं तात हीनस्यापि विधीयते।
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रवर्तकम्॥ शान्ति.२९५/१४॥

मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः।
महाकुलेषु दृश्यन्ते तत् सर्वं तपसः फलम्॥ शान्ति.२९५/१९॥

पुरा शरीरमन्तको भिनत्ति रोगसारथिः।
प्रसह्य जीवितक्षये तपो महत् समाचर॥ शान्ति.३२१/४२॥

मलिनं हि यथा वस्त्रं पश्चाच्छुद्ध्यति वारिणा।
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम्॥ शान्ति.३२२/१७॥

दीर्घकालेन तपसा सेवितेन महामते।
धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः॥ शान्ति.३२२/१८॥

तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः।
आयुः प्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो॥ अनुशासन.५७/८॥

ज्ञानं विज्ञानमारोग्यं रूपं सम्पत् तथैव च।
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ॥ अनुशासन.५७/९॥

धनं प्राप्नोति तपसा मौनेनाज्ञां प्रयच्छति।
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम्॥ अनुशासन.५७/१०॥

अहिंसायाः फलं रूपं दिक्षाया जन्म वै कुले।
फलमूलाशिनं राज्यं स्वर्गः पर्णाशिनां भवेत्॥ अनुशासन.५७/११॥

पयोभक्षो दिवं याति दानेन द्रविणाधिकः।
गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः॥ अनुशासन.५७/१२॥

गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशिनाम्।
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत्॥ अनुशासन.५७/१३॥

नित्यस्नायी भवेद् दक्षः संध्ये तु द्वे जपन् द्विजः।
मरुं साधयतो राजन् नाकपृष्ठमनाशके॥ अनुशासन.५७/१४॥

स्थण्डिले शयमानानां गृहाणि शयनानि च।
चीरवल्कल वासोभिर्वासांस्याभरणानि च॥ अनुशासन.५७/१५॥

शय्यासनानि यानानि योगयुक्ते तपोधने।
अग्नि प्रवेशे नियतं ब्रह्मलोके महीयते॥ अनुशासन.५७/१६॥

रसानां प्रतिसंहारात् सौभाग्यमिह विन्दति।
आमिषप्रतिसंहारात् प्रजा ह्यायुष्मती भवेत्॥ अनुशासन.५७/१७॥

उदवासं वसेत् यस्तु स नराधिपतिर्भवेत्।
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते॥ अनुशासन.५७/१८॥

धर्मार्थं संचयो यो वै द्रव्याणां पक्षसम्मतः।
तपः संचय एवेह विशिष्टो द्रव्यसंचयात्॥ अनुशासन.९३/४५॥

तपोबलाद्धि बलवद् बलमन्यन्न विद्यते॥ अनु.११८/२॥

तपसा महदाप्नोति विद्यया चेति नः श्रुतम्।
तपसैव चापनुदेद् यश्चान्यापि दुष्कृतम्॥ अनुशासन.१२२/६॥

यद् यद्धि किंचित् संधाय पुरुषस्तप्यते तपः।
सर्वमेतदवाप्नोति विद्यया चेति नः श्रुतम्॥ अनुशासन.१२२/७॥

दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम्।
सर्वं वै तपसाभ्येति तपो हि बलवत्तरम्॥ अनुशासन.१२२/८॥

तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम्।
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत्॥ अनु.१४२ दा.पा.॥

तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा।
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः॥ आश्व.५१/१५॥

औषधान्यगदादीनि नानाविद्याश्च सर्वशः।। शान्ति.१६१/४॥

तपसैव प्रसिद्धयन्ति तपोमूलं हि साधनम्॥ आश्व.५१/१६॥

यद् दुरापं दुराम्नायं दुराधर्षं दुरन्वयम्।
तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥ आश्व.५१/१७॥

जन्मान्तर सहस्रेषु तपसा भावितात्मनाम्।
भक्तिरुत्पद्यते तात मनुष्याणां न संशयः॥ आश्व.९२ दा.पा.अ.I॥

ये चैव मुक्तास्तपसि प्रयुक्ताः स्वाध्यायशीला जरयन्ति देहम्।
जितेन्द्रिया भूतहिते निविष्टास्तेषामसौ चापि परश्च लोकः॥ आश्व.९२ दा.पा.अ.XV॥

तपसो हि परं नास्ति तपसा विन्दते महत्॥ आश्रमवास.३६/२९॥