महाभारतसूक्तयः (तीर्थम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते।
देवशुश्रूषणं तीर्थं गुरुशुश्रूषणं तथा।। आश्व.९२ दा.पा.अ.XIX।।

पितृशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा।
दाराणां तोषणं तीर्थं गार्हस्थ्यं तीर्थमुच्यते॥ आश्व.९२ दा.पा.अ.XIX।।

आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम्।
ब्रह्मचर्थं परं तीर्थं त्रेताग्निस्तीर्थमुच्यते॥ आश्व.९२ दा.पा.अ.XIX।।

द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा।
स्थावराज्जङ्गमं तीर्थं ततो ज्ञानपरिग्रहः॥ आश्व.९२ दा.पा.अ.XIX।।

कर्मणापि विशुद्धस्य पुरुषस्येह भारत।
हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते॥ आश्व.९२ दा.पा.अ.XIX।।

गुरुतीर्थं परं ज्ञानमतस्तीर्थ न विद्यते॥ आश्व.९२ दा.पा.अ.XIX।।

क्षमा तु परमं तीर्थं सर्वतीर्थेशु पाण्डव।
क्षमावतामयं लोकः परश्चैव क्षमावताम्॥ आश्व.९२ दा.पा.अ.XIX।।

आचारनैर्मल्यमुपागतेन सत्यक्षमानिस्तुलशीतलेन।
ज्ञानाम्बुना स्नाति हि नित्यमेवं किं तस्य भूयः सलिलेन तीर्थम्॥आश्व.९२ दा.पा.अ.XIX।।

पावनं सर्वतीर्थानां सत्यं गायन्ति सामगाः।
सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते॥ आश्व.९२ दा.पा.अ.XIX।।

तपस्तीर्थं दया तीर्थां शीलं तीर्थं युधिष्ठिर।
अल्पसंतोषकं तीर्थं नारी तीर्थं पतिव्रता॥ आश्व.९२ दा.पा.अ.XIX।।

सन्तुष्टो ब्राह्मनस्तीर्थं ज्ञानं वा तीर्थमुच्यते॥ आश्व.९२ दा.पा.अ.XIX।।

यतयस्तीर्थमित्येवं विद्वांसस्तीर्थमुच्यते।
शरण्यपुरुषस्तीर्थमभयं तीर्थमुच्यते॥ आश्व.९२ दा.पा.अ.XIX।।