महाभारतसूक्तयः (तृष्णा)

विकिसूक्तिः तः
Jump to navigation Jump to search

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ आदि.८५/१४॥
अनुशासन.७/२१। शान्ति.२७६/१२। शान्ति.१७४/५५। वन.२/३६॥

पूर्णं वर्षसहस्त्रं मे विषयासक्तचेतसः।
तथेप्यनुदिनं तृष्णा ममैतेष्वाभिजायते॥ आदि.८५/१५॥

तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता।
अधर्मबहुला चैव घोरा पापानुबन्धिनी॥ वन.२/३५॥

अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्।
विनाशयति भूतानि अयोनिज इवानलः॥ वन.२/३७॥

निबन्धनी ह्यर्थतृष्णेह पार्थ तामिच्छतां बाध्यते धर्म एव।
धर्मं तु यः प्रवृणीते स बुद्धः कामे गृघ्नो हीयतेऽर्थानुरोधात्॥उद्योग.२७/५॥

चक्षुः श्रोत्रे नासिका त्वक् च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः।
तानि प्रीतान्येव तृष्णा क्षयान्ते तान्यव्यथो दुःखहीनः प्रणुद्यात्॥उद्योग.३२/२५॥

मधु पश्यति सम्मोहनात् प्रपातं नानुपश्यति॥ उद्योग.६४/२२॥

नान्तं सर्वविधित्सानां गतपूर्वोऽस्ति कश्चन।
शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते॥ शान्ति.१७७/१७॥

मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम्।
राज्याद् देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि॥ शान्ति.१८०/२४॥

न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति।
सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः॥ शान्ति.१८०/२६॥

ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम्।
हीनैश्च करणैर्देही न देहं पुनरर्हति॥ शान्ति.२१३/२१॥

तृष्णाबद्धं जगत् सर्वं चक्रवत् परिवर्तते॥ शान्ति.२१७/३४॥

बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे।
तृष्णातन्तुरनाद्यान्तस्तथा देहगतः सदा॥ शान्ति.२१७/३५॥

सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः।
तद्वत् संसारसूत्रं हि तृष्णासूच्या निबध्यते॥ शान्ति.२१७/३६॥

विकारं प्रकृतिं चैव पुरुषं च सनातनम्।
यो यथावद् विजानाति स वितृष्णो विमुच्यते॥ शान्ति.२१७/३७॥

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्॥ शान्ति.१७४/४६॥

तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्॥ शान्ति.२७६/६॥

यथैव श्रृंगं गोः काले वर्धमानस्य वर्धते।
तथैव तृष्णा वित्तेन वर्धमानेन वर्धते॥ शान्ति.२७६/७॥

किंचिदेव ममत्वेन यदा भवति कल्पितम्।
तदेव परितापाय नाशे सम्पद्यते पुनः॥ शान्ति.२७६/८॥

न कामाननुरुध्द्येत दुःखं कामेषु वै रतिः।
प्राप्यार्थमुपयुञ्जीत धर्मं कामान् विसर्जयेत्॥ शान्ति.२७६/९॥

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते॥ अनुशासन.७/२४॥

उत्पन्नस्य रुरोः श्रृङ्गं वर्धमानस्य वर्धतेः।
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते॥ अनुशासन.९३/४१॥

न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत्।
समुद्रकल्पः पुरुषो न कदाचन पूर्यते॥ अनुशासन.९३/४२॥

कामं कामयमानस्य यदा कामः समृध्यते।
अथैनमपूरः कामस्तृष्णा विध्यति बाणवत्॥ अनुशासन.९३/४३॥

धनलोभेन तृष्णाया न तृप्तिरुपलभ्यते।
लब्धाश्रयो विवर्धेत समिद्ध इव पावकः॥ अनु.१४५ दा.पा.XIV॥

जित्वापि पृथिवीं कृत्स्नां चतुः सागरमेखलाम्।
सागराणां पुनः पारं जेतुमिच्छत्यसंशयम्॥ अनु.१४५ दा.पा.XIV॥

सर्वं ममेति सम्मूढो बलं पश्यति बालिशः।
एवं सर्वोपयोगेषु स्वल्पमस्य प्रयोजनम्॥ अनु.१४५ दा.पा.XIV॥

तण्डुलप्रस्थमात्रेण यात्रा स्यात् सर्वदेहिनाम्।
ततो भूयस्तरो भोगो दुःखाय तपनाय च॥ अनु.१४५ दा.पा.XIV॥

नास्ति तृष्णासमं दुःखं नास्ति त्याग समं सुखम्।
सर्वान् कामान् परित्यज्य ब्रह्मभूयाय कल्पते॥ अनु.१४५ दा.XIV॥

यत् पृथिव्यां ब्रीहियवं हिरण्यं पशवः स्त्रियः।
नालमेकस्य पर्याप्तमिति पश्यन् न मुह्यति॥ अनु.१४५ दा.पा.XIV॥

यत्प्रयुक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति।
तृष्णार्त इह निम्नानि धावमानो न बुध्यते॥ आश्व.३१/८॥