महाभारतसूक्तयः (तेजस्वी पुरुषः)
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते॥
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः॥ वन.२९/१८॥
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः॥ वन.२९/२०॥
क्रोधं त्यक्त्वा तु पुरुषः सम्यक् तेजोऽभिपद्यते॥ वन.२९/२१॥
विषमावस्थिते दैवे पौरुषेऽफलतां गते।
विषादयन्ति नात्मानं सत्वोपाश्रयिणो नराः॥ वन.७९/१४॥
अपि चेह श्रिया हीनः कृतविद्यः प्रकाशते॥ वन.२०७/४९॥
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः॥ उद्योग.६/२॥
कुले जातो बलवान् यो यशश्वी बहुश्रुतः सुखजीवि यतात्मा।
धर्माधर्मौ ग्रथितौ यो बिभर्ति स ह्यस्य दिष्टस्य वशादुपैति॥उद्योग.३२/१९॥
सुखं दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च।
पर्यायशः सर्वमेते स्पृशन्ति तस्माद् धीरो न च हृष्येन्न शोचेत्॥उद्योग.३६/४७॥
वृद्धिः प्रभावस्तेजश्च सत्त्वमुत्त्थानमेव च।
व्यवसायश्च यस्य स्यात् तस्यावृत्तिभयं कुतः॥ उद्योग.३२/४१॥
कान्तारेषु वनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे।
उद्यतेषु च शस्त्रेषु नास्ति सत्त्ववतां भयम्॥ उद्योग.३९/६७॥
तेजसाभिप्रवर्तन्ते बलवन्तो युधिष्ठिर॥ शान्ति.१३२/७॥
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत्।
न तुषाग्निरिवानर्चिर्धूमायेत चिरं नरः॥ शान्ति.१४०/१९॥
न हि तेजस्विनां शापस्तेजःसु प्रभवन्ति वै।
बलान्यतिबलं प्राप्य दुर्बलानि भवन्ति वै॥ अनुशासन.८५/१५॥