महाभारतसूक्तयः (त्यागी)

विकिसूक्तिः तः
Jump to navigation Jump to search

वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन्।
कृतात्मा स महाराज स वै त्यागी स्मृतो नरः॥ शान्ति.१२/८॥

क्रोधहर्षावनादृत्य पैशुन्यं च विशेषतः।
विप्रो वेदानधीते यः स त्यागी पार्थ उच्यते॥ शान्ति.१२/११॥

अभिमानकृतं कर्म नैतत् फलवदुच्यते।
त्यागयुक्तं महाराज सर्वमेव महाफलं॥ शान्ति.१२/१६॥

अन्तर्बहिश्च यत् किंचिन्मनोव्यासङ्गकारकम्।
परित्यज्य भवेत् त्यागी न हित्वा प्रतितिष्ठति॥ शान्ति.१२/३५॥

आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम्।
अनमित्रपथो ह्येष दुलर्भः सुलभो मतः॥ शान्ति.१७६/८॥

आकिंचन्यं च राज्यं च तुलया समतोलयम्।
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम्॥ शान्ति.१७६/१०॥

नैवास्याग्निर्न चारिष्टो न मृत्युर्न दस्यवः।
प्रभवन्ति धनत्यागाद् विमुक्तस्य निराशिषः॥ शान्ति.१७६/१२॥

तं वै सदा कामचरमनुपस्तीर्णशातिनम्।
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः॥ शान्ति.१७६/१३॥

नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम्।
नात्यक्त्वा चाभयःशेते त्यक्त्वा सर्वं सुखी भवेत्॥ शान्ति.१७६/२२॥

द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि।
सुखत्यागे तपो योगं सर्वत्यागे समापना॥ शान्ति.२१९/१८॥

तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः।
विप्रहाणाय दुःखस्य दुर्गतिस्त्वन्यथा भवेत्॥ शान्ति.२१९/१९॥

नास्ति त्यागसमं सुखम्॥ शान्ति.२७७/३६॥

विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः।
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः॥ शान्ति.२९८/२०॥

यथा मृणालानुगतमाशु मुञ्चति कर्दमम्।
तथाऽऽत्मा पुरुषस्येह मनसा परिमुच्यते॥ शान्ति.२९८/२१॥