महाभारतसूक्तयः (त्रिगुणः)

विकिसूक्तिः तः
Jump to navigation Jump to search

त्रिगुणः[सम्पाद्यताम्]

सम्मोहकं तमो विद्यात् कृष्णमज्ञानसम्भवम्।
प्रीति दुःखनिबद्धाश्च समस्तांस्रीनथो गुणान्॥ शान्ति.२१२/२१॥

तस्मादात्मवता वर्ज्यं रजश्च तम एव च।
रजस्तमोभ्यां निर्मुक्त्तं सत्त्वं निर्मलतामियात॥ शान्ति.२१२/२९॥

रजसाधर्मयुक्तानि कार्याण्यपि समाप्नुते।
अर्थयुक्तानि चात्यर्थं कामान् सर्वांश्च सेवते॥ शान्ति.२१२/३१॥

तमसा लोभयुक्तानि क्रोधजानि च सेवते।
हिंसा विहाराभिरतस्तन्द्री निद्रा समन्वितः॥ शान्ति.२१२/३२॥

सत्त्वस्थः सात्त्विकान्भावाञ्शुद्धान् पश्यति संश्रितः।
स देही विमलः श्रीमाञ्श्रद्धविद्यासमन्वितः॥ शान्ति.२१२/३३॥

रजसा साध्यते मोहस्तमसा भरतर्षभ।
क्रोध लोभौ भयं दर्पं एतेषां सादनाच्छुचिः॥ शान्ति.२१३/१॥

त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः।
प्रहर्षः प्रीतिरानन्दस्त्रयस्ते सात्त्विका गुणाः॥ आश्व.३१/१॥

तृष्णा क्रोधोऽभिसंरम्भो राजसास्ते गुणाः स्मृताः।
श्रमस्तन्द्रा च मोहश्च त्रयस्ते तामसा गुणाः॥ आश्व.३१/२॥

लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते।
स लिप्यमानो लभते भूयिष्ठं राजसान् गुणान्।।
तदवाप्तौ तु लभते भूतिष्ठं तामसान् गुणान्॥ आश्व.३१/१०॥

स तैगुणैः संहतदेहबन्धनः पुनः पुनर्जायति कर्म चेहते।
जन्मक्षये भिन्नविकीर्णदेहो मृत्युं पुनर्गच्छति जन्मनैव॥ आश्व.३१/११॥

तस्मादेतं सम्यगवेक्ष्य लोभं निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत्।
एतद्राज्यं नान्यदस्तीह राज्यमात्मैव राजा विदितो यथावत्॥आश्व.३१/१२॥

तमो रजस्तथा सत्त्वं गुणानेतान् प्रचक्षते।
अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः॥ आश्व.३६/४॥

अन्योन्यापाश्रयाश्चापि तथान्योन्यानुवर्तिनः।
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्चधातवः॥ आश्व.३६/५॥

तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः।
रजसश्चापि सत्त्वं स्यात् सत्त्वस्य मिथुनं तमः॥ आश्व.३६/६॥

नियम्यते तमो यत्र रजस्तत्र प्रवर्तते।
नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते॥ आश्व.३६/७॥

नैशात्मकं तमो विद्यात् त्रिगुणं मोहसंज्ञितम्।
अधर्मलक्षणं चैव नियतं पापकर्मसु।
तामसं रूपमेतत् तु दृश्यते चापि सङ्गतम्॥ आश्व.३६/८॥

प्रकृत्यात्मकमेवाहु रजः पर्यायकारकम्।
प्रवृत्तं सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम्॥ आश्व.३६/९॥

प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता।
सात्त्विकं रूपमेवं तु लाघवं साधुसम्मितम्॥ आश्व.३६/१०॥

तमोगुणः[सम्पाद्यताम्]

परिवादकथा नित्यं देव ब्राह्मणवैदिकी।
अत्यागश्चाभिमानश्च मोहोमन्युस्तथाक्षमा।
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते॥ आश्व.३६/१८॥

एवंविधाश्च ये केचिल्लोकेऽस्मिन् पापकर्मिणः।
मनुष्या भिन्नमर्यादास्ते सर्वे तामसाः स्मृताः॥ आश्व.३६/२१॥

तेषां योनीः प्रवक्ष्यामि नियताः पापकर्मिणाम्।
अवाङ्निरयभावा ते तिर्यङ्निरयगामिनः॥ आश्व.३६/२२॥

स्थावराणि च भूतानि पशवो वाहनानि च।
क्रव्यादा दन्दशूकाश्च कृमिकीटविहंगमाः॥ आश्व.३६/२३॥

अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः।
ॠषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः॥ आश्व.३६/३२॥

तमो मोहो महामोहस्तामिस्त्रः क्रोधसंज्ञितः।
मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध उच्यते॥ आश्व.३६/३३॥

रजोगुणः[सम्पाद्यताम्]

संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक्।
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च॥ आश्व.३७/८॥

इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः॥ आश्व.३७/११॥

भूतभव्यभविष्याणां भावानां भुवि भावनाः।
त्रिवर्ग निरता नित्यं धर्मोऽर्थः काम इत्यपि॥ आश्व.३७/१५॥

कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः।
अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृत्ताः॥ आश्व.३७/१६॥

अस्मिंल्लोके प्रमोदन्ते जायमानः पुनः पुनः।
प्रेत्य भाविकमीहन्ते ऎहलौकिकमेव च॥
ददाति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति॥ आश्व.३७/१७॥

सत्त्वगुणः[सम्पाद्यताम्]

आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च।
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता॥ आश्व.३८/२॥

क्षमाधृतिरहिंसा च समता सत्यमार्जवम्।
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः॥ आश्व.३८/३॥

मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः।
एवं यो युक्तधर्मः स्यात् सोऽमुत्रात्यन्तमश्नुते॥ आश्व.३८/४॥

निर्ममो निरहंकारो निराशीः सर्वतः समः।
अकामभूत इत्येव सतां धर्मः सनातनः॥ आश्व.३८/५॥

हित्वा सर्वाणि पापानि निःशोका ह्यथ मानवाः।
दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः॥ आश्व.३८/११॥

ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते।
विकुर्वते महात्मानो देवास्त्रिदिवगा इव॥ आश्व.३८/१२॥

ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः।
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः॥ आश्व.३८/१३॥

यद् यदिच्छन्ति तत् सर्वं भजन्ते विभजन्ति च।
नैव शक्या गुणा वक्तुं पृथक्त्वेनैव सर्वशः।
अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा॥ आश्व.३९/१॥

यावत्सत्त्वं रजस्तावद् वर्तते नात्र संशयः।
यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते॥ आश्व.३९/३॥

सत्त्वं वैकारिकी योनिरिन्द्रियाणां प्रकाशिका।
न हि सत्त्वात् परो धर्मः कश्चिदन्यो विधीयते॥ आश्व.३९/९॥

त्रयोगुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु।
सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः॥ आश्व.३९/२२॥