महाभारतसूक्तयः (दण्डः)

विकिसूक्तिः तः
Jump to navigation Jump to search

नादण्डः क्षत्रियो भाति नादण्डो भूमिमश्नुते।
नादण्डस्य प्रजा राज्ञः सुखं विन्दति भारत॥ शान्ति.१४/१४॥

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः॥ शान्ति.१५/२५॥

दण्डः संरक्षते धर्मं तथैवार्थं जनाधिप।
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते॥ शान्ति.१५/३॥

दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते।
एवं विद्वानुपाधत्स्व भावं पश्यस्व लौकिकम्॥ शान्ति.१५/४॥

राजदण्ड भयादेके पापाः पापं न कुर्वते।
यमदण्डभयादेके परलोक भयादपि॥ शान्ति.१५/५॥

परस्परभयादेके पापाः पापं न कुर्वते।
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्॥ शान्ति.१५/६॥

दण्डस्यैव भयादेके न खादन्ति परस्परम्।
अन्धे तमसि मज्जेयुर्युदि दण्डो न पालयेत्॥ शान्ति.१५/७॥

यस्माददान्तान् दमयत्यशिष्टान् दण्डयत्यपि।
दमनाद् दण्डनाच्चैव तस्माद् दण्डं विदुर्बुधाः॥ शान्ति.१५/८॥

वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्।
दानदण्डाः स्मृता वैश्या विर्दण्ड शूद्र उच्यते॥ शान्ति.१५/९॥

असम्मोहाय मर्त्यानामर्थ सरंक्षणाय च।
मर्यादा स्थापिता लोके दण्डसंज्ञा विशाम्यते॥ शान्ति.१५/१०॥

यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः।
प्रजास्तत्र न मुह्यन्ते नेता चेत् साधु पश्यति॥ शान्ति.१५/११॥

ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः।
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः॥ शान्ति.१५/१२॥

नाभीतो यजते राजन् नाभीतो दातुमिच्छति।
नाभीतः पुरुष कश्चित् समये स्थातुमिच्छति॥ शान्ति.१५/१३॥

दण्डनीत्यां प्रणीतायां सर्वे सिध्द्यन्त्युपक्रमाः।
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः॥ शान्ति.१५/२९॥

दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः।
जले मत्स्यानिवाभक्ष्यन् दुर्बलान् बलवत्तराः॥ शान्ति.१५/३०॥

अन्धं तम इवेदं स्यान्न प्राज्ञायत किंचन।
दण्डश्चेन्न भवेल्लोके विभजन् साध्वसाधुनी॥ शान्ति.१५/३२॥

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः॥ शान्ति.१५/३४॥

न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते।
न कन्योद्वहनं गच्छेद् यदि दण्डो न पालयेत्॥ शान्ति.१५/३७॥

न प्रेष्या वचनं कुर्युर्न बाला जातु कर्हिचित्।
न तिष्ठेत् युवती धर्मे यदि दण्डो न पालयेत्॥ शान्ति.१५/४२॥

दण्डे स्थिता प्रजाः सर्वा भयं दण्डे विदुर्बुधाः॥ शान्ति.१५/४३॥

न तत्र कूटं पापं वा वञ्चना वापि दुश्यते।
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः॥ शान्ति.१५/४४॥

अर्थे सर्वे समारम्भाः समायत्ता न संशयः।
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम्॥ शान्ति.१५/४८॥

बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः॥ शान्ति.२३/१३॥

ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम्॥ शान्ति.१२१/१॥

सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना।
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः॥ शान्ति.१२१/११॥

माता-पिता च भ्राता च भार्या चैव पुरोहितः।
नादण्ड्यो विद्यते राज्ञो यः स्वधर्मे न तिष्ठति॥ शान्ति.१२१/६०॥

विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया।
दुष्टानां निग्रहो दण्डो हिरण्यं बाह्यतः क्रियाः।। शान्ति.१२१/४०॥

व्यङ्गत्वं च शरीरस्य वधो नाल्पस्य कारणात्।
शरीरपीडास्तास्ताश्च देहत्यागो विवासनम्॥ शान्ति.१२२/४१॥

शिष्ट्यर्थं विहितो दण्डो न वृध्द्यर्थं विनिश्चयः।
ये च शिष्टान् प्रबाधन्ते दण्डस्तेषां वधः स्मृतः॥ शान्ति.१३५/२०॥

नित्यमुद्यतदण्डस्य भृशमुद्विजते नरः।
तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत्॥ शान्ति.१४०/८॥

तत्त्वभेदेन यच्छास्त्रं तत् कार्यं नान्यथाविधम्।
अस्मीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि॥ शान्ति.२६७/९॥

न मूलघातः कर्तव्यो नैष धर्मः सनातनः।
अपि स्वल्पवधेनैव प्रायश्चित्तं विधीयते॥ शान्ति.२६७/१२॥

उद्वेजनेन बन्धेन विरूपकरणेन च।
वधदण्डेन ते क्लिश्या न पुरोहित संसदि॥ शान्ति.२६७/१३॥

बिभ्रद् दण्डाजिनं मुण्डो ब्राह्मणोऽईति शासनम्॥ शान्ति.२६७/१५॥

मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः।
पुरा धिग्दण्ड एवासीद् वाग्दण्डस्तदनन्तरम्॥ शान्ति.२६७/१९॥