महाभारतसूक्तयः (दमः)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem> मनसो दमनं दमः॥ वन.३१३/८८॥

धर्मस्य विधयो नैके ये वै प्रोक्ता महर्षिभिः। स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम्॥ शान्ति.१६०/६॥

दमस्तेजो वर्धयति पवित्रं च दमः परम्। विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत्॥ शान्ति.१६०/९॥

दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम। दमो हि परमो लोके प्रशस्तः सर्व धर्मिणाम्॥ शान्ति.१६०/१०॥

सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते। सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति॥ शान्ति.१६०/१२॥

अदान्तः पुरुषः क्लेश्मभीक्ष्णं प्रतिपद्यते। अनर्थांश्चि बहूनन्यान् प्रसृजत्यात्मदोषजान्॥ शान्ति.१६०/१३॥

क्षमा धृतिरहिंसा च समता सत्यमार्जवम्। इन्द्रियाभिजयो दाक्ष्यं मार्दवं ह्नीरचापलम्॥ शान्ति.१६०/१५॥

अकार्पण्यमसंरम्भः संतोषः प्रियवादिता। अविहिंसानसूया चाप्येषां समुदयो दमः॥ शान्ति.१६०/१६॥

गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम्। जनवादं मृषावादं स्तुतिनिन्दाविसर्जनम्॥ शान्ति.१६०/१७॥

कामं क्रोधं च लोभं च दर्पं स्तम्भं विकत्थनम्। रोषमीर्ष्यावमानं च नैव दान्तो निषेवते॥ शान्ति.१६०/१८॥

अनिन्दितो ह्यकामात्मा नाल्पेष्वर्थ्यनसूयकः। समुद्रकल्पः स नरो न कथंचन पूर्यते॥ शान्ति.१६०/१९॥

अहं त्वयि मति त्वं च मयि ते तेषु चाप्यहम्। पूर्वसम्बन्धिसंयोगं नैतद् दान्तो निषेवते॥ शान्ति.१६०/२०॥

सर्वा ग्राम्यास्तथाऽऽरण्या याश्च लोके प्रवृत्तयः। निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते॥ शान्ति.१६०/२१॥

मैत्रोऽथ शीलसम्पन्नः प्रसन्नत्माऽऽत्मविच्च यः। मुक्तस्य विविधैः सङ्गैस्तस्य प्रेत्य फलं महत्॥ शान्ति.१६०/२२॥

सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽऽत्मविद् बुधः। प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते॥ शान्ति.१६०/२३॥

अभयं यस्य भूतेभ्यो भूतानामभयं यतः। तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन॥ शान्ति.१६०/२६॥

अवाचिनोति कर्माणि न च सम्प्रचिनोति ह। समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत्॥ शान्ति.१६०/२७॥

शकुनीनामिवाकाशे जले वारिचरस्य च। यथा गतिर्न दृश्यते तथा तस्य न संशयः॥ शान्ति.१६०/२८॥

संन्यस्य सर्वकर्माणि संन्यस्य विधिवत् तपः। संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह॥ शान्ति.१६०/३१॥

कामे शुचिरनावृत्तः प्रसन्नात्माऽऽत्मविच्छुचिः। प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते॥ शान्ति.१६०/३१॥

ज्ञानारामस्य बुध्दस्य सर्वभूताविरोधिनः। नावृत्तिभयमस्तीह परलोक भयं कुतः॥ शान्ति.१६०/३३॥

एक एव दमे दोषो द्वितीयो नोपपद्यते। यदेनं क्षमया युक्तंमशक्तं मन्यते जनः॥ शान्ति.१६०/३४॥

एकोऽस्य सुमहाप्राज्ञ दोषः स्यात् सुमहान् गुणः। क्षमया विपुला लोकाः सुलभा हि सहिष्णुता॥ शान्ति.१६०/३५॥

दान्तस्य किमरण्येन तथादान्तस्य भारत। यत्रैव निवसेद् दान्तस्तदरण्यं न चाश्रमः॥ शान्ति.१६०/३६॥

दमो नान्यस्पृहा नित्यं गाम्भीर्यं धैर्यमेव च। अभयं रोगशमनम् ज्ञानेनैतदवाप्यते॥ शान्ति.१६२/१२॥

नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते। स स्नातो यो दमस्नातः स बाह्याभ्यन्तर शुचिः॥ अनु.१०८/९॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(दमः)&oldid=2260" इत्यस्माद् पुनः प्राप्तिः