महाभारतसूक्तयः (दानम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

न दुष्करतरं दानात् तस्माद् दानं मतं मम॥ वन.२५९/३१॥

विशेषतस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम्।
पात्रे काले च देशे च साधुभ्यः प्रतिपादयेत्॥ वन.२५९/३३॥

पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर।
मनसा हि विशुद्धेन प्रेत्यानन्त फलं स्मृतम्॥ वन.२५९/३४॥

श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा॥ वन.२६०/२६॥

दानं वै भूतरक्षणम्॥ वन.३१३/९६॥

दैवं दानफलं प्रोक्तम्॥ वन.३१३/१००॥

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥भीष्म.४१/२०॥ गीता.१७/२०॥

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।
दीयते च परिक्लिष्टं तद् दानं राजसम् स्मृतम्॥ भीष्म.४१/२१॥ गीता.१७/२१॥

अदेशकाले यद् दानमपात्रेभ्यश्च दीयते।
असत्कृतमवज्ञातं तत् तामसमुदाहृतम्॥ भीष्म.४१/२२॥ गीता.१७/२२॥

पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्॥ कर्ण.६९/६५॥

श्रद्दधानस्ततो लोको दद्याच्चैव यजेत च॥ शान्ति.२६/२७॥

लब्धस्य त्यागमित्याहुर्न भोगं न च संचयम्॥ शान्ति.२६/२८॥

न दद्याद् यशसे दानं न भयान्नोपकारिणे॥ शान्ति.३६/३६॥

निर्मन्त्रो निर्वृत्तो यः स्यादशास्त्रज्ञोऽनसूयकः।
अनुक्रोशात् प्रदातव्यं हीनेष्वव्रतिकेषु च॥ शान्ति.३६/४३॥

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते॥ शान्ति.७२/२४॥

दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च।
सद्भ्यो यद् दीयते किंचित् तत्परत्रोपतिष्ठते॥ शान्ति.१९१/३॥

असद्भ्यो दीयते यत्तु तद् दानमिह भुज्यते।
याद्दशं दीयते दानं तादृशं फलमश्नुते॥ शान्ति.१९१/४॥

कीर्तिर्भवति दानेन तथाऽऽरोग्यमहिंसया।
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम्॥ अनु.५७/१९॥

शुभं सर्वपवित्रेभ्यो दानमेव परं द्विज॥ अनु.१२०/१६॥

दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः।
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः॥ अनु.१२०/१८॥

यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः।
सर्वत्यागो यथा चेह तथा दानमनुत्तमम्॥ अनु.१२०/१९॥

सुखात् सुखतर प्राप्तिमाप्नुते मतिमान्नरः॥ अनु.१२०/२०॥

सुखात् सुखतर प्राप्तिमाप्नुते मतिमान्नरः॥ अनु.१२०/२०॥

श्रीमन्तः प्राप्नुवन्त्यर्थान् दानं यज्ञं तथा सुखम्॥ अनु.१२०/२१॥

यदेव ददतः पुण्यं तदेव प्रतिगृह्यतः।
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः॥ अनु.१२१/१४॥

अद्भिगात्रान्मलमिव तमोऽग्निप्रभया यथा।
दानेन तपसा चैव सर्वपापमपोहति॥ अनु.१२२/१८॥

सौम्यचित्तस्तु यो दद्यात् तध्दि दानमनुत्तमम्॥ अनु.१४१/६०-६१ दा.पा.॥

अल्पमल्पमपि ह्येकं दीयमानं विवर्धते॥ अनु.१४१/६०-६१ दा.पा.॥

नास्ति भूमौ दानसमं नास्ति दानसमं निधिः॥ अनु.१४१/६०-६१ दा.पा.॥

नानुप्तं रोहते सस्यं तद्वद् दानफलं विदुः।
यद् यद् ददाति पुरुषस्तत् तत् प्रोप्नोति केवलम्॥ अनु.१४५ दा.पा.॥

पण्डितोऽपण्डितो वापि भुङ्क्ते दानफलं नरः।
बुद्ध्याऽनपेक्षितं दानं सर्वथा तत् फलत्युत॥ अनु.१४५ दा.पा.॥

तपोदानमयं सर्वमिति विद्धि सुभानने॥ अनु.१४५ दा.पा.॥

दानेन भोगी भवति मेधावी वृद्धसेवया।
अहिंसया च दीर्घायुरिति प्रहुर्मनीषिणः॥ अनु.१६३/१२॥

यदा दानरुचिः स्याद् वै तदा धर्मो न सीदति॥ आश्व.९०/९२॥

द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम्॥ आश्व.९०/९३॥

कालः परतरो दानाच्छ्रध्दा चैव ततः पराः।
सहस्रशक्तिश्च शतं शतशक्तिर्दशादपि च॥ आश्व.९०/९६॥

दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः।
न धर्म प्रीयते तात दानैर्दत्तैर्महाफलैः॥ आश्व.९०/९८॥

न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति।