महाभारतसूक्तयः (दुःखम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय।
भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम्॥ उद्योग.५१/५३॥

न नूनं परदुःखेन म्रियते कोऽपि संजय।
यत्र द्रोणमहं श्रुत्वा दृतं जीवामि मन्दधीः॥ द्रोण.९/९॥

शारीरं मानसं दुःखं योऽतीतमनुशोचति।
दुःखेन लभते दुःखं द्वावनर्थौ च विन्दति॥ शान्ति.१६/१०॥

शोकस्थान सहस्राणि हर्षस्थानशतानि च।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ शान्ति.२५/२०॥

दुःखमेवास्ति न सुखं तस्मात् तदुपलभ्यते।
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्॥ शान्ति.२५/२२॥

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
न नित्यं लभते दुःखं न नित्यं लभते सुखम्॥ शान्ति.२५/२३॥

येन दुःखेन यो दुःखी न स जातु सुखी भवेत्।
दुःखानां हि क्षयो नास्ति जायते ह्यपरात् परम्॥ शान्ति.२५/३०॥

मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः।
अनिष्टोपनिपातो वा तृतीयं नोपपद्यते॥ शान्ति.२८/१२॥

सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्।
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते॥ शान्ति.२८/१६॥

मानसादपि दुःखाध्दि शारीरं बलवत्तरम्॥ शान्ति.५०/१४॥

ये दम्भान्नाचरन्ति स्म येषां वृत्तिश्च संयता।
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/३॥

प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः।
प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/४॥

वासयन्त्यतिथीन् नित्यं नित्यं ये चानसूयकाः।
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/५॥

मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः।
वर्जयन्ति दिवा स्वप्नं दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/६॥

ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा।
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/७॥

स्वेषु दारेषु वर्तन्ते न्यायवृत्तिमृतावृतौ।
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/९॥

ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते।
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/११॥

कर्माण्यकुहकार्यानि येषां वाचश्च सूनृताः।
येषामर्थाश्च सम्बध्दा दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१२॥

ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः।
विद्यावेदव्रतस्नाता दुर्णाण्यतितरन्ति ते॥ शान्ति.११०/१४॥

ये च संशान्तरजसः संशान्ति तमसश्च ते।
सत्त्वे स्थिता महात्मानो दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१५॥

येषां न कश्चित् त्रसति न त्रसन्ति हि कस्यचित्।
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१६॥

परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः।
ग्राम्यादर्थान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१७॥

सर्वान् देवान् नमस्यन्ति सर्वधर्माश्च श्रृण्वते।
ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१८॥

ये न मानित्वमिच्छन्ति मानयन्ति च ये परान्।
मान्यमानात् नमस्यन्ति दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१९॥

ये क्रोधं संनियच्छन्ति क्रुध्दान् संशमयन्ति च।
न च कुप्यन्ति भूतानां दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/२१॥

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः।
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/२२॥

यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम्।
वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/२३॥

ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम्।
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/२४॥

दुखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः।
दुःखं चानिष्टसंवासो दुःखमिष्टवियोजनम्॥ शान्ति.१३९/६३॥

सुखात् बहुतरं दुःखं जीविते नात्र संशयः। शान्ति.३३०/१६॥

वधवन्धकृतं दुःखं स्त्रीकृतं सहजं तथा।
दुःखं सुतेन सततं जनान् विपरिवर्तते॥ शान्ति.१३९/६४॥

तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्।
सुखात् संजायते दुःखं दुःखमेव पुनः पुनः॥ शान्ति.१७४/१८॥

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
सुखदुःखे मनुष्याणां चक्रवत् परिवर्ततः॥ शान्ति.१७४/१९॥

शारीरै र्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः।
लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः॥ शान्ति.१९०/६॥

यद् यत्प्रियं यस्य सुखं तदाहुस्तदेव दुःखं प्रवदन्त्यनिष्टम्॥ शान्ति.२०१/१०॥

दुःखोपघाते शारीरे मानसे चाप्युपस्थिते।
यस्मिन् न शक्यते कर्तुं यत्नस्तं नानुचिन्तयेत्॥ शान्ति.२०५/१॥

भैषज्यमेतद् दुःखस्य यदेतन्नानुचिन्तयेत्।
चिन्त्यमानं हि चाभ्येति भूयश्चापि प्रवर्तते॥ शान्ति.२०५/२॥

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः।
एतद् विज्ञानसामर्थ्यं न बालैः समतामियात्॥ शान्ति.२०५/३॥

सुखाद् बहुतरं दुःखं जीविते नात्र संशयः।
स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणममिप्रयम्॥ शान्ति.२०५/६॥

परित्यजति यो दुःखं सुखं वाप्युभयं नरः।
अभ्येति ब्रह्म सोऽत्यन्तं न ते शोचन्ति पण्डिताः॥ शान्ति.२०५/७॥

दुःखं विद्यादुपादानादभिमानाच्च वर्धते।
त्यागात् तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते॥ शान्ति.२१३/१९॥

सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति॥ शान्ति.२२७/२८॥

नास्ति रागसमं दुःखम्॥ शान्ति.२७७/३६॥

न ह्येव दुःखानि सदा भवन्ति सुखस्य वा नित्यशो लाभ एव॥ शान्ति.२८६/१२॥

धृतिश्च दुःखत्यागश्चेत्युभयं तु सुखं नृप॥ शान्ति.२८६/१६॥

प्राक्सम्प्रयोगाद् भूतानां नास्ति दुःखं परायणम्।
विप्रयोगात् तु सर्वस्य न शोचेत् प्रकृतिस्थितः॥ शान्ति.३३०/२७॥