महाभारतसूक्तयः (दुर्योधनः)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem> यद् वै पुरा जातमात्रो रुराव गोमायुवद् विस्वरं पापचेताः। दुर्योधनो भरतानां कुलघ्नः सोऽयं युक्तो भवतां कालहेतुः॥ सभा.६२/३।।

एकः शास्ता न द्वितीयोऽस्ति शास्तागर्भे शयानं पुरुषं शास्ति शास्ता। तेनानुशिष्टः प्रवणादिवाम्भोयथा नियुक्तोऽस्मि तथा भवामि॥ सभा.६४/८।।

मज्जन्त्यलाबूनि शिलाः प्लवन्ते मुह्यन्ति नावोऽम्भसि शश्वदेव। मूढो राजा धृतराष्ट्रस्य पुत्रो न मे वाचः पथ्यरूपाः श्रृणोति॥ सभा.६६/११।।

अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम्॥ सभा.७५/११।।

दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः। अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः॥ वन.१/१६॥

गर्दभे मार्दवं कुर्याद् गोषु तीक्ष्णं समाचरेत्। मृदु दुर्योधने वाक्यं यो ब्रूयात् पापचेतसि॥ उद्योग.४/५॥

मानघ्नस्यासौ मानकामस्य चेर्षोः संरम्भिणश्चार्थ धर्मातिगस्य। दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दौर्हृदैर्भावितस्य॥उद्योग.२६/१४॥

अनेयस्याश्रेयसो दीर्घमन्योर्मित्रद्रुहः संजय पापबुद्धेः। सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्राजहाद् धर्मकामौ॥ उद्योग.२६/१५॥

सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः। दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी॥ उद्योग.२९/५२॥

ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः संजय पापशीलः। यस्यापवादः पृथिवीं याति सर्वां सुयोधनं कुशलं तात पृच्छैः॥उद्योग.३०/१७॥

प्रकृत्या पापसत्त्वश्च तुल्यचेतास्तु दस्युभिः। ऎश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः॥ उद्योग.७४/३॥

अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः। दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः॥ उद्योग.७४/४॥

म्रियेतापि न भज्येत नैव जह्यात् स्वकं मतम्। तादृशेन शमः कृष्ण मन्ये परमदुष्करम्॥ उद्योग.७४/५॥

सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः। प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च॥ उद्योग.७४/६॥

दुर्योधनो कुलाङ्गारो जघन्यः पापपूरुषः॥ उद्योग.७४/१८॥

अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन। मानघ्नो मानकामश्च वृद्धानां शासनातिगः॥ उद्योग.९२/२॥

धर्मशास्त्रातिगो मूढो दुरात्मा प्रग्रहं गतः। अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन॥ उद्योग.९२/३॥

कामात्मा प्राज्ञमानी च मित्रध्रुक् सर्वशङ्कितः। अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः॥ उद्योग.९२/४॥

मूढश्चाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः। कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः॥ उद्योग.९२/५॥

यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः। तथा महर्षे वर्तामि किं प्रलापः करिष्यति॥ उद्योग.१०५/४०॥

यावद्धि तीक्ष्णया सूच्या विध्येदग्रेण केशव। तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान् प्रति॥ उद्योग.१२७/२५॥

कालोऽयं पुत्ररूपेण तव जातो विशाम्पते। न वधः पूज्यते वेदे हितं नैव कथंचन॥ भीष्म.३/५४॥

प्रक्षिप्तः सम्मतः क्षुद्रः पुत्रो मे पुरुषाधम। न युद्धं रोचयेद् भीष्मो न चाचार्यः कथंचन॥ भीष्म.४९/८॥

न कृपो न च गान्धारी नाहं संजय रोचये। भीष्म.४९/९॥

नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः। शत्रुभिर्व्यंसितः पापः कथं नु स जयेदरीन्॥ द्रोण.१८२/५॥

विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः॥ द्रोण.१८२/१७॥

घातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान्। जीवितं यदि रक्षेयं लोको मां गर्हयेद् ध्रुवम्॥ शल्य.५/४५॥

न धर्मः सत्कृतः कश्चिन्नित्यं युदमभीप्सता। अल्पबुध्दिरहंकारी नित्यं युध्दमिति ब्रुवन्। क्रूरो दुर्मर्षणो नित्यमसन्तुष्टश्च वीर्यवान्॥ स्त्री.१/३१॥

कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप। अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः॥ स्त्री.८/३०॥

दुर्योधनस्यापराधेन कर्णस्य शकुनेस्तथा। दुःशासनचतुर्थानां कुरवो निधनं गताः॥ अनु.१४८/६१॥