महाभारतसूक्तयः (द्यूतम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

द्यूते भेदो हि दृश्यते॥ सभा ५०/११॥

अनर्थमर्थं मन्यसे राजपुत्र संग्रथनं कलहस्याति घोरम्।
तद् वै प्रवृत्तं तु यथा कथंचित् सृजेदसीन् निशितान् सायकांश्च॥सभा.५६/१२॥

द्यूते क्षतः कलहो विद्यते नः को वै द्यूतं रोचयेद् बुध्यमानः॥सभा.५८/१०॥

निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः।
न च नीतिर्ध्रुवा राजन् किं त्वं द्यूतं प्रशंसति॥ सभा.५९/५॥

इदं वै देवनं पापं निकृत्या कितवैः सह।
धर्मेण तु जयो युद्धे तत्परं न तु देवनम्॥ सभा.५९/१०॥

कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते॥ सभा.५९/१३॥

एकाहाद् द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च।
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम्॥ वन.१२३/९॥

द्यूतमेतत् पुराकल्पे दृष्टं वैरकरं नृणाम्।
तस्माद् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्॥ उद्योग.३७/१९॥

अक्षद्यूतं महाप्राज्ञ सतां मतिविनाशनम्।
असतां तत्र जायन्ते भेदाश्च व्यसनानि च॥ उद्योग.१२८/६॥