महाभारतसूक्तयः (धर्मः)

विकिसूक्तिः तः
Jump to navigation Jump to search

धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः।
अर्थाः स्त्रिश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्॥आदि.२/३९१॥

धर्म एव हि साधूनां सर्वेषां हितकारणम्।
नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत्॥ आदि.७४ दा.पा.२८-२९॥

मन्यते पापकं कृत्वा न कश्चिद् वेत्ति मामिति।
विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः॥ आदि.७४/२९॥

यदा न कुरुते पापं सर्वभूतेषु कर्हिचित्।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ आदि.७५/५२॥

धर्म एव परः कामादर्थाच्चेति व्यवस्थिताः॥ आदि.१००/५॥

धर्मो हि हतो हन्ति॥ आदि.४१/२२॥

शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव॥ आदि.१५४/२॥

आपत्सु यो धारयति धर्मं धर्मविदुत्तमः।
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते॥ आदि.१५४/१४॥

शरीरस्य विनाशेन धर्म एव विशिष्यते॥ आदि.२१२/२०॥

पुण्यं प्राणान् धारयति पुण्यं प्राणदमुच्यते।
येन येनाचरेद् धर्मं तस्मिन् गर्हा न विद्यते॥ आदि.१५४/१५॥

इज्याध्ययनदानानि तपः सत्यं क्षमा दमः।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ वन.२/७५॥

त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति॥ वन.४/४॥

एष धर्मः परमो यत् स्वकेन राजा तुष्येन्न परस्वेषु गृध्येत्॥ वन.४/७॥

सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः।
इतरेतरयोर्नीतौ विध्दि मेघोदधी यथा॥ वन.३३/२९॥

दानं यज्ञाः सतां पूजा वेदधारणमार्जवम्।
एष धर्मः परो राजन् बलवान् प्रेत्य चेह च॥ वन.३३/४६॥

धर्ममूलं जगद् राजन् नान्यद् धर्माद् विशिष्यते॥ वन.३३/४८॥

धर्मेऽप्रमादं कुरुताप्रमेया॥ वन.१२०/२९॥

धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत्।
अविरोधात् तु यो धर्मः स धर्मः सत्यविक्रम॥ वन.१३१/११॥

धर्मात्मा हि सुखं राजन् प्रेत्य चेह च नन्दति॥ वन.१९१/१९॥

आचारसम्भवो धर्मो धर्मे वेदाः प्रतिष्ठिताः।
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः॥ वन.१५०/२८॥

धर्मः परः पाण्डव राज्यलाभात् तस्यार्थमाहुस्तप एव राजन्॥वन.१८३/१६॥

तस्मात् कल्याणवृत्तः स्यादनन्ताय नरः सदा।
विहाय चित्तं पापिष्ठं धर्ममेव समाश्रयेत्॥ वन.१९९/१५॥

धर्मः सुदुर्लभो विप्र नृशंसेन महात्मनाम्॥ वन.२०५/१४॥

सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः॥ वन.२०६/४०॥

श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम्॥ वन.२०६/४१॥

वेदोक्तः परमो धर्मः धर्मशास्त्रेषु चापरः।
शिष्टाचारश्च शिष्टानां त्रिविधं धर्मलक्षणम्॥ वन.२०७/८३॥

धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कर्हिचित्॥ वन.२६३/४४॥

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः॥ वन.३१३/१२८॥

यशः सत्यं दमः शौचमार्जवं ह्नीरचापलम्।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम॥ वन.३१४/७॥

अहिंसा समता शान्तिरानृशम्स्यममत्सरः।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम॥ वन.३१४/८॥

यतो धर्मस्ततो जयः॥ उद्योग.३९/९; भीष्म.२/१४ द्रोण.१८३/६६।।

न तत् परस्य संदध्यात् प्रतिकूलं यदात्मनः।
संग्रहेणैष धर्मः स्यात् कामादन्यः प्रवर्तते॥ उद्योग.३९/७१॥

न जातु कामान्न भयान्न लोभाद् धर्मं जह्याज्जीवितस्यापि हेतोः॥
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः।
त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये संतुष्य त्वं तोषपरो हि लाभः॥ उद्योग.४०/१२, उद्योग.४०/१३, स्वर्ग.५/६३॥

उभयमेव तत्रोपयुज्यते फलं धर्मस्यैवेतरस्य च॥ उद्योग.४२/२३॥

त्यक्त्वाधर्मं च लोभं च मोहं चोद्यमास्थिताः।
युद्ध्यध्वमनहंकारा यतो धर्मस्ततो जयः॥ भीष्म.२१/११॥

यत्र धर्मो द्युतिः कान्तिर्यत्र ह्नीः श्रीस्तथा मतिः।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः॥ भीष्म.२३/२८॥

धर्मे स्थितस्य हि यथा न कश्चिद् वृजिनं क्वचित्॥ भीष्म.५२/६२॥

नूनं धर्मस्ततोऽधिकः। स्त्री.१४/११॥

यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः।
सोऽस्माच्च हीयते लोकात् क्षुद्रभावं च गच्छति॥ द्रोण.२४/१४॥

धर्मापेक्षी नरो नित्यं सर्वत्र लभते सुखम्।
प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते॥ द्रोण.८५/३१॥

न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम्॥ द्रोण.१४३/४१॥

सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा॥ ३१/५०॥

दुष्करं परमं ज्ञानं तर्केणानुव्यवस्यति।
श्रुतेर्धर्म इति ह्येके वदन्ति बहवो जनाः॥ कर्ण.६९/५५॥

यत् स्यादहिंसा संयुक्तं स धर्म इति निश्चयः।
अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम्॥ कर्ण.६९/५७॥

धारणाद् धर्ममित्याहुर्धर्मो धारयते प्रजाः।
यत् स्याद् धारणसंयुक्तं स धर्म इति निश्चयः॥ कर्ण.६९/५८॥

कथं तेषां जयो न स्याद् येषां धर्मो व्यपाश्रयः॥ शल्य.१९/२७॥

धर्मः सुचरितः सद्भिः स च द्वाभ्यां नियच्छति॥ शल्य.६०/२१॥

अद्रोहेणैव भूतानां यो धर्मः स सतां मतः॥ शान्ति.२१/११॥

अद्रोहः सत्यवचनं संविभागो दया दमः।
प्रजनं स्वेषु दारेषु मार्दवं ह्नीरचापलम्।
एवं धर्मं प्रधानेष्टं मनुः स्वायम्भुवोऽब्रवीत्॥ शान्ति.२१/१२॥

अदत्तस्यानुपादानं दानमध्ययनं तपः।
अहिंसा सत्यमक्रोध इज्या धर्मस्य लक्षणम्॥ शान्ति.३६/१०॥

स एव धर्मः सोऽधर्मः देशकाले प्रतिष्ठितः।
आदानमनृतं हिंसा धर्मो ह्यावस्थिकः स्मृतः॥ शान्ति.३६/११॥

धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा।
तस्मिन् ह्रसति ह्रीयन्ते तस्माद् धर्मं न लोपयेत्॥ शान्ति.९०/१७॥

प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा॥ शान्ति.९०/१९॥

अस्मिंल्लोके परे चैव धर्मात्मा सुखमेधते॥ शान्ति.९१/५२॥

न कामान्न च संरम्भान्न द्वेषाद् धर्ममुत्सृजेत्॥ शान्ति.९३/९॥

धर्मेण निधनं श्रेयो न जयः पापकर्मणा॥ शान्ति.९५/१७॥

तस्मात् धर्मेण विजयं कोशं लिप्सेत भूमिपः॥ शान्ति.९५/२२॥

सत्येन हि स्थितो धर्म उपपत्या तथा परे।
साध्वाचारतया केचित् तथैवौपयिकादपि॥ शान्ति.१००/२॥

सत्यानृते विनिश्चित्य ततो भवति धर्मवित्॥ शान्ति.१०९/६॥

प्रभवार्थाय भूतानां धर्म प्रवचनं कृतम्।
यः स्यात् प्रभव संयुक्तः स धर्म इति निश्चयः॥ शान्ति.१०८/१०॥

धारणाद् धर्ममित्याहु धर्मेण विधृताः प्रजाः।
यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः॥ शान्ति.१०९/११॥

अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम्।
यः स्यादहिंसासंपृक्तः स धर्म इति निश्चयः॥ शान्ति.१०८/१२॥

सर्वो हि लोको नृप धर्ममूलः॥ शान्ति.१२०/५६॥

धर्ममूलः सदैवार्थः कामोऽर्थफलमुच्यते।
संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः॥ शान्ति.१२३/४॥

विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये।
मूलमेतत् त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते॥ शान्ति.१२३/५॥

धर्माच्छरीरसंगुप्तिर्धर्मार्थं चार्थ उच्यते।
कामो रतिफलश्चात्र सर्वे ते च रजस्वलाः॥ शान्ति.१२३/६॥

अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम्।
सम्प्रमोदमलः कामो भूयः स्वगुणवर्जितः॥ शान्ति.१२३/१०॥

यो धर्मार्थौ परित्यज्य काममेवानुवर्तते।
स धर्मार्थ परित्यागात् प्रज्ञानाशमिहार्च्छति॥ शान्ति.१२३/१५॥

प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः।
तस्मान्नास्तिकता चैव दुराचारश्च जायते॥ शान्ति.१२३/१६॥

धर्मो ह्यणीयान् वचनाद् बुद्धिश्च भरतर्षभ।
श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित्॥ शान्ति.१३०/६॥

यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते।
तथा तथा विजानाति विज्ञानमथ रोचते॥ शान्ति.१३०/१०॥

यश्चतुर्गुणसम्पन्नं धर्मं ब्रूयात् स धर्मवित्।
अहेरिव धर्मस्य पदं दुःखं गवेषितुम्॥ शान्ति.१३२/२०॥

अतिधर्माद् बलं मन्ये बलाद् धर्मः प्रवर्तते।
बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमम्॥ शान्ति.१३४/६॥

धूमो वायोरिव वशे बलं धर्मोऽनुवर्तते।
अनीश्वरो बले धर्मो द्रुमे वल्लीव संश्रिता॥ शान्ति.१३४/७॥

वशे बलवतां धर्मः सुखं भोगवतामिव।
नास्त्यसाध्यं बलवतां सर्वे बलवतां शुचि॥ शान्ति.१३४/८॥

स वै धर्मो यत्र न पापमस्ति॥ शान्ति.१४१/७६॥

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः।
धर्मेण देवा ववृधुर्धर्मे चार्थः समाहितः॥ शान्ति.१६७/७॥

धर्मो राजन् गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते।
कामो यवीयानिति च प्रवदन्ति मनीषिणः॥ शान्ति.१६७/८॥

युवैव धर्मशीलः स्यादनित्यं खलु जीवितम्।
कृते धर्मे भवेत् कीर्तिरिह प्रेत्य च वै सुखम्॥ शान्ति.१७५/१६॥

सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम्।
चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम्॥ शान्ति.२५९/३॥

लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः॥ शान्ति.२५९/४॥

धर्मस्य निष्ठा त्वाचारस्तमेवाश्रित्य भोत्स्यसे॥ शान्ति.२५९/६॥

न हर्तव्यं परधनमिति धर्मः सनातनः॥ शान्ति.२५९/१२॥

मन्यन्ते बलवन्तस्तं दुर्बलैः सम्प्रवर्तितम्।
यदा नियतिदौर्बल्यमथैषामेव रोचते॥ शान्ति.२५९/१३॥

सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः॥ शान्ति.२५९/२५॥

न धर्मः परिपाठेन शक्यो भारत वेदितुम्॥ शान्ति.२६०/३॥

अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः।
आपदस्तु कथं शक्याः परिपाठेन वेदितुम्॥ शान्ति.२६०/४॥

अद्रोहेण भूतानामल्प द्रोहेण वा पुनः।
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले॥ शान्ति.२६२/६॥

सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः।
कर्मणा मनसा वाचा स धर्मं वेद जाजले॥ शान्ति.२६२/९॥

नाहं परेषां कृत्यानि प्रशंसामि न गर्हये।
आकाशस्येव विप्रेन्द्र पश्यंल्लोकस्य चित्रताम्॥ शान्ति.२६२/११॥

यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा।
देवैरपिहितद्वाराः सोपमा पश्यतो मम॥ शान्ति.२६२/१३॥

यथा वृध्दातुरकृशा निःस्पृहा विषयान् प्रति।
तथार्थकामभोगेषु ममापि विगता स्पृहा॥ शान्ति.२६२/१४॥

न भूतो न भविष्योऽस्ति न च धर्मोऽस्ति कश्चन।
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम्॥ शान्ति.२६२/१७॥

यस्माद् उद्विजते लोकः सर्वो मृत्युमुखादिव।
वाक्क्रूरात् दण्डपरुषात् स प्राप्नोति महद् भयम्॥ शान्ति.२६२/१८॥

यथावद् वर्तमानानां वृद्धानां पुत्रपौत्रिणाम्।
अनुवर्तामहे वृत्तमंहिस्राणां महात्मनाम्॥ शान्ति.२६२/१९॥

आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात्।
एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा॥ शान्ति.२६२/२१॥

वरं धर्मेण जीवितुम्॥ शान्ति.२७१/३२॥

देवता ब्राह्मणाः सन्तो यक्षा मानुष चारणाः।
धार्मिकान् पूजयन्तीह न धनाढ्यान् न कामिनः॥ शान्ति.२७१/५५॥

धने सुखकला काचिद् धर्मे तु परमं सुखम्॥ शान्ति.२७१/५६॥

लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च।
न धर्मे जायते बुद्धिर्व्याजाद् धर्मं करोति च॥ शान्ति.२७३/६॥

धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती॥ शान्ति.२७३/२४॥

धर्म एव कृतः श्रेयानिह लोके परत्र च॥ शान्ति.२९०/६॥

धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते॥ शान्ति.२९०/६४॥

धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम्।
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः॥ शान्ति.३०९/६॥

अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्॥ अनुशासन.२२/१९॥

साधूनां पुनराचारो गरीयान् धर्मलक्षणः॥ अनुशासन.४५/५॥

न तत् परस्य संदध्यात् प्रतिकूलं यदात्मनः।
एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते॥ अनुशासन.११३/८॥

परदारेष्वसंसर्गो न्यासस्त्रीपरिरक्षणम्।
अदत्तादानविरमो मधुमांसस्य वर्जनम्॥ अनुशासन.१४१/२६॥

चित्तमूलो भवेद् धर्मो धर्ममूलं भवेद् यशः॥ अनु.१४१ दा.पा.॥

वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः।
शिष्टाचीर्णोऽपरः प्रोक्तस्त्रयो धर्माः सनातनाः॥ अनु.१४१/६५॥

सर्वभूतेषु यः सम्यग् ददात्यभयदक्षिणाम्।
हिंसादोषविमुक्तात्मा स वै धर्मेण युज्यते॥ अनु.१४२/२७॥

सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः।
सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते॥ अनु.१४२/२८॥

आर्जवं धर्ममित्याहुरधर्मो जिह्म उच्यते।
आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते॥ अनु.१४२/३०॥

क्षन्तो दान्तो जितक्रोधो धर्मभूतो विहिंसकः।
धर्मे रतमना नित्यं नरो धर्मेण युज्यते॥ अनु.१४२/३२॥

व्यपेततन्द्रिर्धर्मात्मा शक्त्या सत्पथमाश्रितः।
चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते॥ अनु.१४२/३३॥

तदेव धर्ममित्याहुर्दोषसंयमनं प्रिये।
यमधर्मेण धर्मोऽस्ति नान्यः शुभतरः प्रिये॥ अनु.१४५ दा.पा.॥

यस्तस्य विपुलो दण्डः सम्यग्धर्मः स कीर्त्यते॥ अनु.१४८/५०॥

अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्।
अजातशत्रो सेवस्व धर्म एष सनातनः॥ अनु.१६२/२३॥

ये तु धर्मं महाराज सततं पर्युपासते।
सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः॥ अनु.१६२/२९॥

मनुष्या यदि वा देवाः शरीरमुपताप्य वै।
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः॥ अनु.१६२/३१॥

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः।
तस्मात् सर्वाणि भूतानि धर्ममेव समासते॥ अनु.१६२/६०॥

एक एव चरेद् धर्मं न धर्मध्वजिको भवेत्।
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते॥ अनु.१६२/६१॥

अर्चेद् देवानदम्भेन सेवेतामायया गुरून्।
निधिं निदध्यात् पारत्र्यं यात्रार्थं दानशब्दितम्॥ अनु.१६२/६२॥

यदा च क्षीयते पापं कालेन पुरुषस्य तु।
तदा संजायते बुध्दिर्धर्मं कर्तुं युधिष्ठिर॥ आश्व.९२ दा.पा.अ.I॥

एवं धर्मात् परं नास्ति महत्संसारमोक्षणम्।
न च धर्मात् परं किंचित् पापकर्मव्यपोहनम्॥ आश्व.९२ दा.पा.अ.II॥

तस्मात् धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम्।
न हि धर्मानुरक्तानां लोके किंचन दुर्लभम्॥ आश्व.९२ दा.पा.अ.II॥

एकः प्रजायते जन्तुरेक एव प्रमीयते।
एकोऽनुभुङक्ते सुकृतमेकश्चाप्नोति दुष्कृतम्॥ आश्व.९२ दा.पा.अ.X॥

मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं क्षितौ।
विमुखा बान्धवा यान्ति धर्मस्तमनुवर्तते॥ आश्व.९२ दा.पा.अ. X॥

अनागतानि कार्याणि कर्तुं गणयते मनः।
शारीरकं समुद्दिश्य स्मयते नूनमन्तकः॥
तस्माद् धर्मसहायस्तु धर्मं संचिनुयात् सदा।
धर्मेण हि सहायेन तमस्तरति दुस्तरम्॥ आश्व.९२ दा.पा.अ. X॥

अहिंसा शैचमक्रोधमानृशंस्यं दमः शमः।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्॥ आश्व.९२ दा.पा.अ. XIII॥

बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम्।
वार्धके मौनमातिष्ठेत् सर्वदा धर्ममाचरेत्॥ आश्व.९२ दा.पा.अ. XIII॥

ब्राह्मणान् नावमन्येत गुरून् परिवदेन्न च।
यतीनामनुकूलः स्यादेष धर्मः सनातनः॥ आश्व.९२ दा.पा.अ. XIII॥

धर्मो धर्मेण वर्धते॥ आश्व.९२ दा.पा.अ. XIX॥

सत्येन संवर्धयति यो दमेन शमेन च।
अहिंसया च दानेन तप्यमानः सनातनः॥ आश्रमवास.२८/१७॥

सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम्।
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्त कल्मषैः॥ आश्रमवास.२८/२०॥

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते॥ स्वर्ग.५/६२॥