सामग्री पर जाएँ

महाभारतसूक्तयः (धृतराष्ट्रः)

विकिसूक्तिः तः

दुर्योधन ममाप्येतद् हृदि सम्परिवर्तते।
अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम्॥ आदि.१४१/१६॥

धृतराष्ट्रस्तु तं हृष्टः पर्यपृच्छत् पुनः पुनः।
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत॥ सभा.६५/४३॥

एतद्वाक्यं विदुर यत् ते सभायामिह प्रोक्तं पाण्डवान् प्राप्य मां च।
हितं तेषामहितं मामकानामेतत् सर्वं मम नावैति चेतः॥ वन.४/१८॥

कथं हि पुत्रं पाण्डवार्थे त्यजेयम्॥ वन.४/१८॥

विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते॥ उद्योग.६/६॥

वनं राजा धृतराष्ट्रः सपुत्रो व्याघ्रास्ते वै संजयः पाण्डुपुत्राः।
सिंहाभिगुप्तं न वनं विनश्येत् सिंहो न नश्येत् वनाभिगुप्तः॥ उद्योग.२९/५४॥

लताधर्माः धार्तराष्ट्राः शालाः संजय पाण्डवाः।
न लता वर्धते जातु महाद्रुममनाश्रिता॥ उद्योग.२९/५६॥

हन्तात्मनः कर्म निबोध राजन् धर्मार्थयुक्तादार्यवृत्तादयेतम्।
उपक्रोशं चेह गतोऽसि राजन् भूयश्च पापं प्रसजेदमुत्र॥ उद्योग.३२/१६॥

त्वमेवैको जातु पुत्रस्य राजन् वशं गत्वा सर्वलोके नरेन्द्र।
कामात्मनः श्लाघनो द्यूतकाले नागाः शमं पश्य विपाकमस्य॥ उद्योग.३२/२९॥

अनाप्तानां संग्रहात् त्वं नरेन्द्र तथाऽऽप्तानां निग्रहाच्चैव राजन्।
भूमिं स्फीतां दुर्बलत्वादनन्तामशक्तस्त्वं रक्षितुं कौरवेय॥ उद्योग.३२/३०॥

विपरीततरश्च त्वं भागधेये न सम्मतः।
अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः॥ उद्योग.३३/१५ दा.पा.॥

दुर्योधने सौबले च कर्णे च दुःशासने तथा।
एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि॥ उद्योग.३३/१५ दा.पा.॥

पापाशङ्की पापमेवानुपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाहम्॥ उद्योग.३४/३॥

सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसम्मतम्।
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्तो जयः॥ उद्योग.३९/९॥

बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः।
पश्यन्नपि जयं तेषां न नियच्छामि यत् सुतान्॥ उद्योग.५१/४७॥

कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत्।
पाण्डवेषु वने राजन् प्रव्रजत्सु पुनः पुनः॥ उद्योग.५४/१०॥

अवाग् गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः।
ईर्षु दुरात्मा मानी च श्रेयसां वचनातिगः॥ उद्योग.६९/८॥

त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र् सुतप्रियः।
यो जानन् पापतामस्य तत्प्रज्ञाममनुवर्तसे॥ उद्योग.१२९/१२॥

राजा तु धृतराष्ट्रोऽयं वयोवृध्दो न शाम्यति।
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते॥ उद्योग.१४४/५॥

भवत्येव हि मे सूत बुध्दिर्दोषानुदर्शिनी।
दुर्योधनं समासाद्य पुनः सा परिवर्तते॥ उद्योग.१५९/६॥

दिष्टमेतत् पुरा मन्ये भविष्यति नरक्षयः॥ भीष्म.३/४७॥

स्वार्थे हि सम्मुह्यति तात लोको मां चापि लोकात्मकमेव विध्दि॥ भीष्म.३/६०॥

न चापि ते मद्वशगा महर्षे न चाधर्मं कर्तुमर्हा हि ये मतिः॥ भीष्म.३/६१॥

मनः प्रीणाति मे वाक्यं जयं संजय श्रृण्वतः।
प्रत्युपायं चिन्तयतो लज्जां प्राप्नोति मे न हि॥ भीष्म.४९/३॥

श्रृणु राजन् स्थिरो भूत्वा तवापनयनो महान्।
न च दुर्योधने दोषमिममाधातुमर्हसि॥ भीष्म.४९/२२॥

गतोदके सेतुबन्धो यादृक् तादृङ् मतिस्तव।
संदीप्ते भवने यद्वत् कूपस्य खननं तथा॥ भीष्म.४९/२३॥

तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च।
द्वैधीभावं तथा धर्मे पाण्डवेषु मत्सरम्॥ द्रोण.११४/५१॥

तव जिह्माभिप्रायं विदित्वा पाण्डवान् प्रति।
आर्त्त प्रलापांश्च बहून् मनुजाधिपसत्तम॥ द्रोण.११४/५२॥

वासुदेवस्ततो युध्दं कुरूणामकरोन्महत्॥ द्रोण.११४/५३॥

आत्मापराधात् सुमहान् प्राप्तस्ते विपुलः क्षयः।
नैनं दुर्योधने दोषं कर्तुमर्हसि मानद॥ द्रोण.११४/५४॥

न हि ते सुकृतं किंचिदादौ मध्ये च भारत।
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः॥ द्रोण.११४/५५॥

सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः।
मिथ्याविनीतः सततमस्मास्वनपकारिषु॥ शान्ति.७/२३॥