महाभारतसूक्तयः (धैर्यम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

दुःखैर्न तप्येन्न सुखैः प्रहृष्येत् समेन वर्तेत सदैव धीरः॥ आदि.८९/९॥

भये न मुह्याम्यष्टकाहं कदाचित् संतापो मे मानसो नास्ति कश्चित्।
धाता यथा मां विदधीत लोके ध्रुवं तथाहं भवितेति मत्वा॥ आदि.८९/१०॥

धृत्या द्वितीयवान् भवति॥ वन.३१३/४८॥

सात्त्विक धृति -
धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥ भीष्म.४२/३३॥

राजसिक धृति -
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।
प्रसङ्गेन फलाकाङ्क्षी धृति सा पार्थ राजसी॥ भीष्म.४२/३४॥

तामसिक धृति -
यया स्वप्नं भयं शोकं विषादं मदमेव च।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥ भीष्म.४२/३५॥

धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम्॥ शान्ति.१६२/१९॥

सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च।
वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः॥ शान्ति.१६२/२०॥

पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन वा।
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करि नृप॥ शान्ति.२२७/३॥

धैर्येण युक्तस्य सतः शरीरं न विशीर्यते॥
विशोकता सुखं धत्ते चारोग्यमुत्तमम्॥ शान्ति.२२७/४॥

आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्।
यच्च प्राज्ञो नरस्तात सात्त्विकीं वृत्तिमास्थितः॥ शान्ति.२२७/५॥

तस्यैश्वर्यं च धैर्यं च व्यवसायश्च कर्मसु।
धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा।
चक्षुः श्रोत्रे च मनसा मनो वाचं च विद्यया॥ शान्ति.३३०/२८॥