महाभारतसूक्तयः (ध्यानम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem> तूष्णीम्भूत उपासीत न चेष्टेन्मनसापि च॥ उद्योग.४३/५९॥

ब्रह्मयोग युक्तात्मा सुखमक्षयमश्नुते॥ भीष्म.२९/२१; गीता.५/२१॥

योगी युञ्जीत सततमात्मानं रहसि स्थितः। एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥ भीष्म.३०/१०; गीता.६/१०॥

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः। नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्॥ भीष्म.३०/११; गीता.६/११॥

तत्रैकाग्रं मनः कृत्वा यत चित्तेन्द्रियक्रियः। उपविश्यासने युञ्जाद् योगमात्मविशुध्दये॥भीष्म.३०/१२; गीता.६/१२॥

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः। सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्॥ भीष्म.३०/१३; गीता.६/१३॥

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः। मनः संयम्य मच्चित्तो युक्त आसीत तत्परः॥ भीष्म.३०/१४; गीता.६/१४॥

युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः। शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति॥ भीष्म.३०/१५; गीता.६/१५॥

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः। न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन॥ भीष्म.३०/१६; गीता.६/१६॥

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः॥ भीष्म.३०/१९; गीता.६/१९॥

संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः। मनसैव इन्द्रियग्रामं विनियम्य समन्ततः॥ भीष्म.३०/२४; गीता.६/२४

शनैः शनैरुपरमेद् बुध्द्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत्॥ भीष्म.३०/२५; गीता.६/२५॥

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्। ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्॥ भीष्म.३०/२६; गीता.६/२६॥

युञ्जन्नेवं सदात्मानं योगी विगतकल्पषः। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते॥ भीष्म.३०/२८; गीता.६/२८॥

अर्जुन - योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्ताहं च पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्॥ भीष्म.३०/३३; गीता.६/३३॥

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।। भीष्म.३०/३४; गीता.६/३४॥

श्रीकृष्ण - असंशयं महाबाहो मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥ भीष्म.३०/३५; गीता.६/३५॥

असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः॥ भीष्म.३०/३६; गीता.६/३६॥

इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम्। एष ध्यानपथः पूर्वो मया समनुवर्णितः॥ शान्ति.१९५/१०॥

तस्य तत् पूर्वसंरुध्दमात्मनः षष्ठमान्तरम्। स्फुरिष्यति समुद्भ्रान्ता विद्युदम्बरे यथा॥ शान्ति.१९५/११॥

जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः। एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि॥ शान्ति.१९५/१२॥

समाहितं क्षणं किञ्चिद् ध्यानवर्त्मनि तिष्ठति। पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत्॥ शान्ति.१९५/१३॥

अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरी। समादध्यात् पुनश्चेतो ध्यानेन ध्यानयोगवित्॥ शान्ति.१९५/१४॥

विचारश्च विवेकश्च वितर्कश्चोपजायते। मुनेः समादधानस्य प्रथमं ध्यानमादितः॥ शान्ति.१९५/१५॥

मनसा क्लिश्यमानस्तु समाधानं च कारयेत्। न निर्वेदं मुनिर्गच्छेत् कुर्यादेवात्मनो हितम्॥ शान्ति.१९५/१६॥

एवमेवेन्द्रियग्रामं शनैः सम्परिभावयेत्। संहरेत् क्रमशश्चैव स सम्यक् प्रशमिष्यति॥ शान्ति.१९५/१९॥

न तत्पुरुषकारेण न च दैवेन केनचित्। सुखमेष्यति तत् तस्य यदेवं संयतात्मनः॥ शान्ति.१९५/२१॥

दुष्कृते सुकृते चापि न जन्तुर्नियतो भवेत्। नित्यं मनः समाधाने प्रयतेत विचक्षणः॥ शान्ति.२९०/२१॥