महाभारतसूक्तयः (नर - नारायण)

विकिसूक्तिः तः
नेविगेशन पर जाएँ खोज पर जाएँ

<poem> यः परः प्रकृते प्रोक्तः पुरुषः पञ्चविंशकः। स एव सर्वभूतात्मा नर इत्यभिधीयते॥ अनु.१२४ दा.पा.॥

नराज्जातानि तत्त्वानि नाराणीति ततो विदुः। तान्येव चायनं तस्य तेन नारायणः स्मृतः॥ अनु.१२४ दा.पा.॥

नारायणाज्जगत् सर्वं सर्गकाले प्रजायते। तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते॥ अनु.१२४ दा.पा.॥

नमो नारायणायेति यो वेद ब्रह्म शाश्वतम्। अन्तकाले जपन्नेति तद्विष्णोः परमं पदम्॥ अनु.१२४ दा.पा.॥

अजरममरमेकं ध्येयमाद्यन्तशून्यं सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम्। निरुपममुपमेयं योगिविज्ञानगम्यं त्रिभुवनगुरुमीशं सम्प्रपद्यस्व विष्णुम्॥ अनु.१२४ दा.पा.॥