महाभारतसूक्तयः (निर्बलः)

विकिसूक्तिः तः

<poem> सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम्। अनादरोऽविरोधश्च प्रणिपाती हि दुर्बलः॥ उद्योग.७२/७३॥

दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते। अबलं तु महद्भूतं यस्मिन् सर्वं प्रतिष्ठितम्॥ शान्ति.९१/१२॥

दुर्बलस्य च यच्चक्षुर्मुनेराशीविषस्य च। अविषह्यतमं मन्ये मा स्म दुर्बलमासदः॥ शान्ति.९१/१४॥

दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान्। मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम्॥ शान्ति.९१/१५॥

अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम्। अबलस्य कुतः राज्यमराज्ञः श्रीर्भवेत् कुतः॥ शान्ति.१३३/४॥

बलवत्संनिकर्षो हि न कदाचित् प्रशस्यते॥ शान्ति.१३८/१७५॥

प्रशान्तादपि मे पापाद् भेतव्यं बलिनः सदा॥ शान्ति.१३८/१७७॥

तस्मात् वैरं न कुर्वीत दुर्बलो बलवत्तरैः। शोचेध्दि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा॥ शान्ति.१५७/९॥

कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च। नरं समूलं दहति कक्षमग्निरिव ज्वलन्॥ अनुशासन.५१/३८॥