महाभारतसूक्तयः (निवासयोग्यः देशः)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem> शिष्योपाध्यायिकावृत्तिर्यत्र स्यात् सुसमाहिता। यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत्॥ शान्ति.२८७/४२॥

आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम्। आत्मपूजाभिकामो वै को वसेत् तत्र पण्डितः॥ शान्ति.२८७/४३॥

यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः। प्रदीप्तमिव चैलान्तं कस्तं देशं न संत्यजेत्॥ शान्ति.२८७/४४॥

यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः। भवेत् तत्र वसेच्चैव पुण्यशीलेषु साधुषु॥ शान्ति.२८७/४५॥

धर्ममर्थनिमित्तं च चरेयुर्यत्र मानवाः। न ताननुसेवेज्जातु ते हि पापकृतो जनाः॥ शान्ति.२८७/४६॥

यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः। कुटुम्बिनामग्रभुजस्त्यजेत् तद् राष्ट्र्मात्मवान्॥ शान्ति.२८७/४९॥

श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः। याजनाध्यापने युक्ता यत्र तद् राष्ट्रमावसेत्॥ शान्ति.२८७/५०॥

अशुचीन् यत्र पश्येत ब्राह्मणान् वृत्तिकर्शितान्। त्यजेत् तद् राष्ट्रमासन्नमुपसृष्टमिवामिषम्॥ शान्ति.२८७/५२॥

प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः। स्वस्थचित्तो वसेत् तत्र कृतकृत्य इवात्मवान्॥ शान्ति.२८७/५३॥

दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु। चरेत् तत्र वसेच्चैव पुण्यशीलेषु साधुषु॥ शान्ति.२८७/५४॥

यत्र राजाधर्मनित्यो राज्यं धर्मेण पालयेत्। अपास्य कामान् कामेशो वसेत् तत्राविचारयन्॥ शान्ति.२८७/५६॥

यथाशीला हि राजानः सर्वान् विषयवासिनः। श्रेयसा योजयत्याशु श्रेयसि प्रत्युपस्थिते॥ शान्ति.२८७/५७॥