महाभारतसूक्तयः (नीचपुरुषः)

विकिसूक्तिः तः
Jump to navigation Jump to search

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च।
न तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पापबुध्दिषु॥ आदि.७९/१०॥

अकारणाद् ये द्विषन्ति परिवादं वदन्ति च।
न तत्रास्य निवासोऽस्ति पाप्मभिः पापतां व्रजेत्॥ आदि.७९/११-१२ दा.पा.॥

सुकृते दुष्कृते वापि यत्र सज्जति यो नरः।
ध्रुवं रतिर्भवेत् तत्र तस्माद् दोषं न रोचयेत्॥ आदि.७९/११-१२ दा.पा.॥

नाकृतात्मा वेदयति धर्माधर्म विनिश्चयम्॥ वन.२१५/१८॥

दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च।
तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः॥ वन.२४९/१८॥

मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः।
अयशः प्राप्नुयाद् घोरं महद् वा प्राप्नुयाद् भयम्॥ विराट.१४/३७॥

हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घं वैरी क्षत्रविद्यास्वधीरः।
एवं धर्मानापदः संश्रयेयुर्हीनवीर्यो यश्च भवेदशिष्टः॥ उद्योग.३२/१८॥

पापं कुर्वन् पापकीर्तिः पापमेवाश्नुते फलम्॥ उद्योग.३५/६०॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी।
पर्वकारश्च सूची च मित्रधुक् पारदारिकः॥ उद्योग.३५/४६॥

भ्रूणहा गुरुतल्पी च यश्च स्यात् पानपो द्विजः।
अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः॥ उद्योग.३५/४७॥

स्रुवप्रग्रहणो व्रात्यः कीनाशश्चात्मवानपि।
रक्षेत्युक्तश्च यो हिंस्यात् सर्वे ब्रह्महभिः समाः॥ उद्योग.३५/४८॥

दुःशासनस्तूपहतोऽभिशस्तो नावर्तते मन्युवशात् कृतघ्नः।
न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः॥ उद्योग.३६/१८॥

न श्रद्दधाति कल्याणं परेभ्यो ऽप्यात्मशङ्कितः।
निराकरोति मित्राणि यो वै सोऽधमपूरुषः॥ उद्योग.३६/१९॥

अधमांस्तु न सेवेत य इच्छेद् भूतिमात्मनः॥ उद्योग.३६/२०॥

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः।
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा॥ उद्योग.३६/४१॥

न तथेच्छन्ति कल्याणान् परेषां वेदितुं गुणान्।
यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः॥ उद्योग.३७/४७॥

परापवादनिरताः परदुःखोदयेषु च।
परस्परविरोधे च यतन्ते सततोत्थिताः॥ उद्योग.३९/११॥

सदोषं दर्शनं येषां संवासे सुमहद् भयम्।
अर्थादाने महान् दोषः प्रदाने च महद् भयम्॥ उद्योग.३९/१२॥

ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः।
ये पापा इति विख्याताः संवासे परिगर्हिताः॥ उद्योग.३९/१३॥

युक्ताश्चान्यैर्महादोषैर्ये नरास्तान् विवर्जयेत्।
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति॥ उद्योग.३९/१४॥

काम क्रोधानुवर्ती हि यो मोहाद् विरुरुत्सति।
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम्॥ उद्योग.९१/२९॥

वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति।
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति॥ उद्योग.१४९/८॥

मित्रध्रुग् दुष्टभावश्च नास्तिकोऽथानृजुः शठः।
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः॥ उद्योग.१४९/७॥

अकार्याणां क्रियाणां च संयोगं यः करोति वै।
कार्याणमक्रियाणां च स पार्थ पुरुषाधमः।। कर्ण.६९/१८॥

प्रायेण नीचा व्यसनेषु मग्ना निन्दति दैवं कुकृतं न तु स्वम्॥कर्ण.९१/१॥

रागाद् क्रोधाद् भयाल्लोभाद् योऽर्थानीहति मानवः॥ सौप्तिक.२/२४॥

अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः॥ सौप्तिक.२/२५॥

परोक्षमगुणानाह सद्गुणानभ्यसूयते।
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः॥ शान्ति.१०३/४६॥

तूष्णीम्भावेऽपि विज्ञेयं न चेद् भवति कारणम्।
निःश्वासं चोष्ठसंदंशं शिरसश्च प्रकम्पनम्॥ शान्ति.१०३/४७॥

करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते।
अदृष्टितो न कुरुते दृष्टो नैवाभिभाषते॥ शान्ति.१०३/४८॥

आसने शयने याने भावा लक्ष्या विशेषतः॥ शान्ति.१०३/४९॥

पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः॥ शान्ति.१०३/५१॥

नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः॥ शान्ति.१४३/११३॥

कण्टकान् कूपमग्निं च वर्जयन्ति यथा नराः।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्॥ शान्ति.१६४/२॥

धर्मशीलं गुणोपेतं पापमित्यवगच्छति।
आत्मशीलप्रमाणेन न विश्वसिति कस्यचित्॥ शान्ति.१६४/८॥

परेषां यत्र दोषः स्यात् तद् गुह्यं सम्प्रकाशयेत्।
समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत्॥ शान्ति.१६४/९॥

तथोपकारिणं चैव मन्यते वञ्चितं परम्।
दत्त्वापि च धनं काले संतपत्युपकारिणे॥ शान्ति.१६४/१०॥

भक्ष्यं पेयमथालेह्यं यच्चान्यत् साधु भोजनम्।
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत्॥ शान्ति.१६४/११॥

दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः।
असन्तस्त्विति विख्याताः सन्तश्चाचारलक्षणाः॥ शान्ति.१९३/२॥

निकृती हि नरो लोकान् पापान् गच्छत्यसंशयम्।
विदुलस्येव तत् पुष्पं मोघं जनयितुः स्मृतः॥ अनु.१०५/८॥

सर्वानर्थः कुले यत्र जायते पापपुरुषः।
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधति च॥ अनु.१०५/९॥