महाभारतसूक्तयः (नीतिः)
<poem> मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः॥ उद्योग.३७/७॥
न विश्वासाज्जातु परस्य गेहे गच्छेन्नरश्चेतयानो विकाले। न चत्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्राथंयीत॥ उद्योग.३७/२८॥
घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बालपुत्रा। सेनाजीवि चोध्दतभूतिरेव व्यवहारेषु वर्जनीयाः स्युरेते॥ उद्योग.३७/३०॥
अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम्। अदेशकालज्ञमनिष्टवेषमेतान् गृहे न प्रतिवासयेत्॥ उद्योग.३७/३५॥
कदर्यमाक्रोशकमश्रुतं च वनौकसं धूर्तममान्यमानिनम्। निष्ठूरिणं कृतवैरं कृतघ्नमेतान् भृशार्तोऽपि न जातु याचेत्॥ उद्योग.३७/३६॥
संक्लिष्टकर्माणमतिप्रमादं नित्यानृतं चादृढभक्तिकं च। विसृष्टरागं पटुमानिनं चाप्येतान् न सेवेत् नराधमान् षट्॥ उद्योग.३७/३७॥
अप्रशस्तानि कर्याणि यो मोहादनुतिष्ठति। स तेषां विपरिभ्रंशाद् भ्रंश्यते जीवितादपि॥ उद्योग.३८/२२॥
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्। तेषामेवाननुष्ठानं पश्चात्तापकरं मतम्॥ उद्योग.३८/२३॥
ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा। अमात्यं नृपतिर्वेद राजा राजानमेव च॥ उद्योग.३८/२८॥
दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च। नियन्तव्यः सदा क्रोधो वृध्दबालातुरेषु च॥ उद्योग.३८/३०॥
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्। कीर्तिं च लभते लोके न चानर्थेन युज्यते॥ उद्योग.३८/३१॥
न बुध्दिर्धनलाभाय न जाड्यमसमृध्दये। लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः॥ उद्योग.३८/३३॥
अविसंवादनं दानं समयस्याव्यतिक्रमः। आवर्तयन्ति भूतानि सम्यक् प्रणिहिता च वाक्॥ उद्योग.३८/३६॥
येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च। ये चानार्ये समासक्ताः सर्वे ते संशयं गताः॥ उद्योग.३८/४२॥
यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः। यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः॥ उद्योग.३८/४५॥