महाभारतसूक्तयः (पञ्च महाभूतानि)

विकिसूक्तिः तः
Jump to navigation Jump to search

पञ्चेमानि महाराज महाभूतानि संग्रहात्।
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः॥ भीष्म.५/३॥

भूमिरापस्तथा वायुरग्निराकाशमेव च।
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः॥ भीष्म.५/४॥

शब्द स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः।
भूमेरेते गुणाः प्रोक्ता ॠषिभिस्तत्ववेदिभिः॥ भीष्म.५/५॥

चत्वारोऽप्सु गुणा राजन् गन्धस्तत्र न विद्यते।
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः।
शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव तु॥ भीष्म.५/६॥

एते पञ्च गुणा राजन् महाभूतेषु पञ्चसु।
वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः॥ भीष्म.५/७॥

अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा॥ भीष्म.५/८॥

यदा तु विषमीभावमाविशन्ति परस्परम्।
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा॥ भीष्म.५/९॥

अनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः।
सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम्॥ भीष्म.५/१०॥

तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः।
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते॥ भीष्म.५/११॥

अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्।
प्रकृतिभ्यः परं यत् तु तदचिन्त्यस्य लक्षणम्॥ भीष्म.५/१२॥

न युष्मास्विह मे प्रीति कामलोभानुसारिषु।
तस्मादुसृज्य कामान् वै सत्त्वमेवाश्रयाम्यहम्॥ शान्ति.१७७/३०॥

अमितानां महाशब्दो यान्ति भूतानि सम्भवम्।
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते॥ शान्ति.१८४/३॥

चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः।
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्॥ शान्ति.१८४/४॥

इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजंगमम्।
श्रोत्रं घ्राणं रसः स्पर्शी दृष्टिश्चेन्द्रियसंज्ञिताः॥ शान्ति.१८४/५॥

त्वक् च मांसं तथास्थीनि मज्ज स्नायुश्च पञ्चमम्।
इत्येतदिति संघातं शरीरे पृथिवीमयम्॥ शान्ति.१८४/२०॥

तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च।
अग्निर्जरयते यश्च पञ्चाग्नेयाः शरीरिणः॥ शान्ति.१८४/२१॥

श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च।
आकाशात् प्राणिनामेते शरीरे पञ्चधातवः॥ शान्ति.१८४/२२॥

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा॥ शान्ति.१८४/२३॥

प्राणात् प्रणीयते प्राणी व्यानाद् व्यायच्छते तथा।
गच्छत्यपानोऽधश्चैव समानो हृद्यवस्थितः॥ शान्ति.१८४/२४॥

उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते।
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम्॥ शान्ति.१८४/२५॥

भूमेर्गन्धगुणान् वेत्ति रसं चाद्भ्यः शरीरवान्।
ज्योतिषा चक्षुषा रूपं स्पर्शं वेत्ति च वाहिना॥ शान्ति.१८४/२६॥

आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु।
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः॥ शान्ति.१८४/४४॥