महाभारतसूक्तयः (पतिः)
मितं ददाति हि पिता मितं माता मितं सुतः।
अमितस्य हि दातारं का पतिं नाभिनन्दति॥ आदि.१५७/२२-२३ दा.पा.॥
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा।
यद् भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि॥ वन.१२/६८॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता।
प्रजयां रक्ष्यमाणायामात्मा भवति रक्षितः॥ वन.१२/६९॥
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत।
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे॥ वन.१२/७०॥
भर्ता नाम परं नार्या भूषणं भूषणैर्विना॥ वन.६८/१९॥
भर्तव्या रक्षणीया च पत्नी पत्या हि सर्वदा॥ वन.६९/४१॥
नैतादृशं दैवतमस्ति सत्ये सर्वेषु लोकेषु सदेवकेषु।
यथा पतिस्तस्य तु सर्वकामा लभ्याः प्रसादात् कुपितश्च हन्यात्॥वन.२३४/२॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य हि दातारं भर्तारं का न पूजायेत्॥ शान्ति.१४८/६॥
नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम्।
विसृज्य धनसर्वस्वं भर्ता वै शरणम् स्त्रियः॥ शान्ति.१४८/७॥
पतिहीना तु का नारी सती जीवितुमुत्सहेत्॥ शान्ति.१४८/९॥
भरणाध्दि स्त्रियो भर्ता पालनाध्दि पतिस्तथा॥ शान्ति.२६६/३७॥
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम्॥ शान्ति.२६६/३९॥
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः।
पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः॥ अनु.१४६/५५॥
नापराधोऽस्ति सुभगे नराणां बहुभार्यता।
प्रमदानां भवत्येष मा तेऽभूद् बुध्दिरीदृशी॥ आश्व.८०/१४॥
सख्यं चैतत् कृतं धात्रा शश्वदव्ययमेव तु॥ आश्व.८०/१५॥
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा॥ आश्व.९०/५२॥