महाभारतसूक्तयः (पत्नी)

विकिसूक्तिः तः
Jump to navigation Jump to search

भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः।
जायायास्तध्दि जायात्वं पौराणाः कवयो विदुः॥ आदि.७४/३७॥

सा भार्या या गृहे दक्षा सा भार्या या प्रजावती।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥ आदि.७४/४०॥

अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा।
भार्या मूलं त्रिवर्गस्य भार्या मूलं तरिष्यतः॥ आदि.७४/४१॥

भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः॥ आदि.७४/४२॥

सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः।
पितरो धर्म कार्येषु भवन्त्यार्तस्य मातरः॥ आदि.७४/४३॥

सुसंरब्धोऽपि रामाणां न कुर्यादप्रियं नरः।
रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य हि॥ आदि.७४/५१॥

नारीणां चिरवासो हि बान्धवेषु न रोचते॥ आदि.७४/१२॥

पतिस्नेहोऽतिबलवान् न तथा भ्रातृसौहृदम्॥ आदि.१५१/१९॥

सहधर्मचारीं दान्तां नित्यं मातृसमां मम।
सखायं विहितां देवैर्नित्यं परमिकां गरिम्। आदि.१५६/३१॥

एतध्दि परमं नार्याः कार्यं लोके सनातनम्।
प्राणानपि परित्यज्य यद् भर्तृहितमाचरेत्॥ आदि.१५७/४॥

न च भार्यासमं किंचिद् विद्यते भिषजां मतम्।
औषधं सर्वदुःखेषु सत्यमेतद् ब्रवीमि ते॥ वन.६१/२९॥

नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्॥ वन.६१/३०॥

न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकर्मणा॥ वन.२३३/१३॥

न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन॥ वन.२३३/१७॥

दुर्व्याहिताच्छङ्कमाना दुःस्थिताद् दुखेक्षितात्।
दुरासिताद् दुर्व्रजितादिङ्गताध्यासितादपि॥ वन.२३३/२१॥

द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः॥ वन.२३३/२३॥

नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि।
न संविशामि नाश्नामि सदा कर्मकरेष्वपि॥ वन.२३३/२४॥

प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी।
संयता गुप्तधान्या च सुसम्मृष्टनिवेशना॥ वन.२३३/२६॥

अतिहासातिरोषौ च क्रोधस्थानं च वर्जये।
निरताहं सदा सत्ये भर्तॄणामुपसेवने॥ वन.२३३/२९॥

सर्वथा भर्तृरहितं न ममेष्टं कथंचन।
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित्॥ वन.२३३/३०॥

सुमनोवर्णकापेता भवामि व्रतचारिणी॥ वन.२३३/३१॥

प्रथमं प्रतिबुध्यामि चरमं संविशामि च।
नित्यकालमहं सत्ये एतत् संवननं मम॥ वन.२३३/५८॥

सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि॥ आदि.२३४/४१॥

भार्या च सुहृदां वरा॥ विराट.२/१७॥

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता॥ विराट.२१/४०॥

प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः।
आत्मा हि जायते तस्यां तेन जायां विदुर्बुधाः॥ विराघ.२१/४१॥

भर्ता तु भार्यया रक्ष्यः कथं जायान्ममोदरे॥ विराट.२१/४२॥

पुत्र पौत्रवधूभृत्यैराकीर्णमपि सर्वतः।
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत्॥ शान्ति.१४४/५॥

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
ग्रुहं तु गृहिणीहीनमरण्यसदृशं मतम्॥ शान्ति.१४४/६॥

पतिव्रता पतिगतिः पतिप्रियहिते रता।
यस्य स्यात् तादृशी भार्या धन्यः स पुरुषो भुवि॥ शान्ति.१४४/१०॥

धर्मार्थकामकालेषु भार्या पुंसः सहायिनी।
विदेशगमने चास्य सैव विश्वासकारिका॥ शान्ति.१४४/१३॥

भार्या हि परमो ह्यर्थः पुरुषस्येह पठ्यते।
असहायस्य लोकेऽस्मिंल्लोकयात्रासहायिनी॥ शान्ति.१४४/१४॥

तथा रोगभिभूतस्य नित्यं कृच्छ्रगतस्य च।
नास्ति भार्या समं किंचिन्नरस्यार्तस्य भेषजम्॥ शान्ति.१४४/१५॥

नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः।
नास्ति भार्यासमो लोके सहायो धर्मसंग्रहे॥ शान्ति.१४४/१६॥

यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्॥ शान्ति.१४४/१७॥

न सा स्त्री ह्यभिमन्तव्या यस्यां भर्ता न तुष्यति।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवता॥ शान्ति.१४५/३॥

सहधर्मचारी भर्तुर्भवत्यग्निसमीपतः॥ अनु.१४६/३४॥