महाभारतसूक्तयः (पश्चात्तापः)

विकिसूक्तिः तः
Jump to navigation Jump to search

अतिक्रान्तं हि यत् कार्यं पश्चाच्चिन्तयते नरः।
तच्चास्य न भवेत् कार्यं चिन्तया च विनश्यति॥ कर्ण.३१/२९॥

आदावेव मनुष्येण वर्तितव्यं यथाक्षमम्।
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते॥ स्त्री.१/३५॥

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते॥ स्त्री.२६/४॥

तस्मात् प्रत्यक्षदृष्टोऽपि युक्तो ह्यर्थः परिक्षितुम्।
परीक्ष्य ज्ञापयन्नर्थान्न पश्चात् परितप्यते॥ शान्ति.१११/६७॥

दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः॥ शान्ति.२७०/१४॥

यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते।
तथा तथा शरीरं तु तेनाधर्मेण मुच्यते॥ अनु.११२/५॥

यथा लवणमम्भोभिराप्लुतं प्रविलीयते।
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति॥ अनु.१६२/५७॥