महाभारतसूक्तयः (पापकर्म)

विकिसूक्तिः तः
Jump to navigation Jump to search

योहि कश्चिद् द्विजान् हन्याद् गां वा लोकस्य मातरम्।
शरणागतं च त्यजते तुल्यं हि तेषां पातकम्॥ वन.१३१/६॥

पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः।
तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः॥ वन.२०७/५४॥

पापानां विध्द्यधिष्ठानं लोभमेव द्विजोत्तम।
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः॥ शान्ति.२०७/५८॥

पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः॥ उद्योग.३५/६१॥

नष्टप्रज्ञः पापमेव नित्यमारभते नरः॥ उद्योग.३५/६२॥

असूयको दन्दशूको निष्ठुरो वैरकृच्छठः।
स कृच्छ्रं मह्रदाप्नोति न चिरात् पापमाचरन्॥ उद्योग.३५/६४॥

पापोदयफलं विद्वान् यो नारभति वर्धते।
यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते।
अगाध पङ्के दुर्मेधा विषमे विनिपात्यते॥ उद्योग.३९/३५॥

धनंजय कृतं पापं कल्याणेनोपहन्यते॥ शान्ति.७/३६॥

ख्यापनेनानुतापेन दानेन तपसापि वा॥ शान्ति.७/३७॥

यो हि पापसमारम्भे कार्ये तद्भावभावितः।
कुर्वन्नपि तथैव स्यात् कृत्वा च निरपत्रपः॥ शान्ति.३३/३५॥

तस्मिंस्तत् कलुषं सर्वं समाप्तमिति शब्दितम्।
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः॥ शान्ति.३३/३६॥

तपसा कर्मणा चैव प्रदानेन च भारत।
पुनाति पापं पुरुषः पुनश्चेन्न प्रवर्तते॥ शान्ति.३५/१॥

सावित्रीमप्यधीयीत शुचौ देशे मिताशनः।
अहिंसो मन्दकोऽजल्पो मुच्यते सर्वकिल्विषैः॥ शान्ति.३५/३७॥

तस्मात् दानेन तपसा कर्मणा च फलं शुभम्।
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान्॥ शान्ति.३५/४१॥

जानता तु कृतं पापं गुरु सर्वं भवत्युत।
अज्ञानात् स्वल्पको दोषः प्रायश्चित्तं विधीयते॥ शान्ति.३५/४५॥

न मिश्रः स्यात् पापकृद्भिः कथंचित्॥ शान्ति.७३/२३॥

पापस्य लोको निरयोऽप्रकाशो नित्यं दुःखं शोकभूयिष्ठमेव।
तत्रात्मानं शोचति पापकर्मा वन्हीः समाः प्रतपन्नप्रतिष्ठः॥ शान्ति.७३/२७॥

यदि नात्मनि पुत्रेषु न चेत् पौत्रेषु नप्तृषु।
न हि पापं कृतं कर्म सद्यः फलति गौरिव॥ शान्ति.९१/२१॥

अपविध्यन्ति पापनि दान यज्ञ तपोबलः॥ शान्ति.९७/५॥

सह संजात वृध्दस्य तथैव सहभोजिनः।
शरणागतस्य च वधस्त्रिविधं ह्येव पातकम्॥ शान्ति.१३९/१९॥

इच्छयेह कृतं पापं सद्यस्तं चोपसर्पति।
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभ॥ शान्ति.१३९/२१॥

पापं कर्म कृतं किंचिद् यदि तस्मिन् न दृश्यते।
नृपते तस्य पुत्रेषु पौत्रेष्वपि नप्तृषु॥ शान्ति.१३९/२२॥

आत्मनानर्थयुक्तेन पापे निविशते मनः।
स्वकर्मकलुषं कृत्वा कृच्छ्रे लोके विधीयते॥ शान्ति.१८१/२॥

अज्ञानाध्दि कृतं पापं तपसैवाभिनिर्णुदेत्॥ शान्ति.२९१/६॥

आत्मनानर्थयुक्तेन पापे निविशते मनः।
स कर्म कलुषं कृत्वा क्लेशे महति धीयते॥ शान्ति.३२२/२॥

प्राणातिपातः स्तैन्यं च परदारानथापि च।
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत्॥ अनुशासन.१३/३॥

असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा।
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत्॥ अनुशासन.१३/४॥

अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम्।
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत्॥ अनुशासन.१३/५॥

अधिकारे यद्नृतं यच्च राजसु पैशुनम्।
गुरोश्चालीककरणं तुल्यं तद् ब्रह्महत्यया॥ अनुशासन.२२/२९॥

कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा।
पश्यन्ति ॠतवश्चापि तथा दिननिशेऽप्युत॥ अनु.४३/७॥

परोपतापजननमत्यन्तं पातकं स्मृतम्॥ अनु.१४५ दा.पा.॥

तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर।
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते॥ आश्व.३/४॥

यज्ञेन तपसा चैव दानेन च नराधिप।
पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः॥ आश्व.३/५॥