महाभारतसूक्तयः (पुण्यम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

पुण्यस्य लोके मधुमान् घृतार्चिर्हिरण्यज्योतिरमृतस्य नाभिः।
तत्र प्रेत्य मोदते ब्रह्मचारी न तत्र मृत्युर्न जरा नोत दुःखम्॥ शान्ति. ७३/२६॥

निरालम्भोऽप्ययमिह यथालब्धोपजीवनः।
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात्॥ शान्ति. २८७/३८॥

अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा।
तथा पश्यामहे स्पर्शमुभयोः पापपुण्ययोः॥ शान्ति. २८७/३९॥

आयुर्न सुलभं लब्ध्वा नावकर्षेद् विशाम्यते।
उत्कार्षार्थं प्रयतेत नरः पुण्येन कर्मणा॥ शान्ति. २९१/३॥

शकुनीनामिवाकाशे मत्स्यानामिवोदके।
पदं यथा न दृश्यन्ते तथा पुण्य कृतां गतिः॥ शान्ति. ३२२/१९॥

यज्ञदानतपः शीला नरा वै पुण्यकर्मिणः।
येऽभिदुह्यन्ति भूतानि ते वै पापकृतो जनाः॥ अनु. १२०/२५॥

बुद्धिमायुष्यमारोग्यं बलं भाग्यं तथाऽऽगमम्।
रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम्॥ अनु. १४५ दा. पा.॥