महाभारतसूक्तयः (पुत्रः)

विकिसूक्तिः तः
Jump to navigation Jump to search

पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः।
तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा॥ आदि. ७४/३९॥

अन्तरात्मैव सर्वस्य पुत्रनाम्नोच्यते सदा।
गती रूपं च् चेष्टा च आवर्ता लक्षणानि च॥
पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च।
तेषां शीलाचारगुणास्तत्सम्पर्काच्छुभाशुभाः।। आदि.७४/४८/४९॥

भर्यायां जनितं पुत्रमादर्शेष्वि चाननम्।
ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत्॥ आदि. ७४/४९॥

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्॥ आदि. ९५/३१॥

प्रतिपद्य यदा सूनुर्धनणीरेणुगुण्ठितः।
पितुराश्लिष्यतेऽङ्गानि किमस्त्यभ्यधिकं ततः॥ आदि. ७४/५३॥

शिशोरालिङ्ग्यमानस्य चन्दनादधिकं भवेत्॥ आदि. ७४/दा.पा. ५५-५६॥

त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात् पुरुषोऽपरः।
सरसीवामलेऽऽत्मानं द्वितीयं पश्य वै सुतम्॥ आदि. ७४/६५॥

प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः॥ आदि. ८५/२४॥

मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः।
स पुत्रः पुत्रवद् यश्च वर्तते पितृमातृषु॥ आदि. ८५/२५॥

यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा।
सर्वमर्हति कल्याणं कनीयानपि सत्तमः॥ आदि. ८५/३०॥

मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे॥ आदि. १०४/३१॥

तेषां पिता यथा स्वामी तथा माता न संशयः॥ आदि. १०४/३२॥

स्वयंजातः प्रणीतश्च तत्समः पुत्रिकासुतः।
पौनर्भवश्च कानीनः भगिन्यां यश्च जायते॥ आदि. ११९/३३॥

इह वा तारयेद् दुर्गादुत वा प्रेत्य भारत।
सर्वथा तारयेत् पुत्रः पुत्र इत्युच्यते बुधैः॥ आदि. १५८/५॥

दृढं विद्म परं पुत्रं परं पुत्रान्न विद्यते॥ वन.९/४॥

सुतेषु राजन् सर्वेषु हीनेष्वभ्यधिका कृपा॥ वन.९/१९॥

एको हि बहुभिः श्रेयान् विद्वान् साधुरसाधुभिः॥ वन.९९/२२॥

सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते।
ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम्॥ वन. १३७/१६॥

पुत्रः प्रसवतां वरः॥ वन.३१३/५६॥

पुत्र आत्मा मनुष्यस्य॥ वन.३१३/७२॥

पुत्र प्रियाणामधिकः॥ विराट. २/१७॥

आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते।
प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च॥ उद्योग. ६०/६॥

न हि पुत्रेण हैडिम्बे पिता न्याय्यः प्रबाधितुम्॥ द्रोण. १५६/९४॥

एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम्।
इच्छन्ति पुरुषाः पुत्रं लोके नान्यं कथंचन॥ द्रोण. १९४/५॥

बहुकल्याणमिच्छन्ति ईहन्ते पितरः सुतान्।
तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया॥ शान्ति. १५०/१४॥

लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः।
यजमाना यथाऽत्मानमृत्विजश्च तथा प्रजाः॥ शान्ति. २६३/१०॥

पिता ह्यात्मानमाधत्ते जायायां जाज्ञिवानिति।
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च॥ शान्ति. २६६/१४॥

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा।
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्॥ अनुशासन. ४५/११॥

मातुश्च यौतुकं यत् स्यात् कुमारीभाग एव सः।
दौहित्र एव तद् रिक्थमपुत्रस्य पितुर्हरेत्॥ अनुशासन. ४५/१२॥

ददाति हि स पिण्डान् वै पितुर्मातामहस्य च।
पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः॥ अनुशासन. ४५/१३॥

अन्यत्रा जामया सार्धं प्रजानां पुत्र ईहते।
दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते॥ अनुशासन. ४५/१४॥

दौहित्रकेण धर्मेण नात्र पश्यामि कारणम्।
विक्रीतासु हि ये पुत्रा भवन्ति पितुरेव ते॥ अनुशासन. ४५/१५॥

आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्।
अल्पो वा बहु वा राजन् विक्रयस्तावदेव सः॥ अनुशासन. ४५/२०॥

निदेशवर्ती च पितुः पुत्रो भवति धर्मतः॥ आश्रमवास. ४/८॥