महाभारतसूक्तयः (पुरुषार्थः)
अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा।
तस्योदये व्यये चापि न चिन्तयितुमर्हसि॥ वन. ७९/१२॥
अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च।
महान् भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते॥ उद्योग. ३९/५७॥
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः।
एवं बुद्धि प्रवर्तेत फलं स्यादुभयान्वये॥ उद्योग. ७७/११॥
दैवं हि मानुषोपेतं भृशं सिद्ध्यति पार्थिव॥ उद्योग. १९१/१५॥
हीनं पुरुषकारेण कर्म त्विह न सिद्ध्यति।। सौत्पिक. २/२०॥
पौरुषं हि परं मन्ये दैवं निश्चितमुच्यते॥ शान्ति. ५६/१५॥
उत्थानवीरः पुरुषो वाग्वीरानधितिष्ठति॥ शान्ति. ५८/१५॥
विद्या तपो वा विपुलं धनं वा सर्वं ह्येतद् व्यवसायेन शक्यम्।
बुद्ध्यायत्तं तन्निवसेद् देहवत्सु तस्माद् विद्याद् व्यवसायं प्रभूतम्॥ शा. १२०/४५॥
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्।
उदाराणां तु सत्कर्म दैवं क्लीबा उपासते॥ शान्ति. १३९/८२॥
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्।
तथा पुरुषकारेण विना दैवं न सिद्ध्यति॥ अनुशासन.६/७॥
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्।
क्षेत्रबीजसमायोगात् ततः सस्यं समृद्ध्यते॥ अनुशासन.६/८॥
कृती सर्वत्र लभते प्रतिष्ठां भाग्यसंयुताम्।
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम्॥ अनुशासन.६/११॥
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मन॥ अनुशासन.६/१२॥
यत्नवान् सुखमेधते॥ अनु. १०४/१४६॥
न याचेत् परान् धीरः स्वबाहुबलमाश्रयेत्॥ अनु. १४५ दा.पा.
केवलं फलनिष्पत्तिरेकेन तु न शक्यते।
पौरुषेणैव दैवेन युगपद् ग्रथितं प्रिये॥ अनु. १४५ दा.पा.
खननान्मथनाल्लोके जलाग्नि प्रापणं तथा।
तथा पुरुषकारे तु दैवसम्पत् समाहिता॥ अनु. १४५ दा.पा.
नरस्याकुर्वतः कर्म दैवसम्पन्न लभ्यते।
तस्मात् सर्वसमारम्भो दैवमानुषनिर्मितम्॥ अनु. १४५ दा.पा.