महाभारतसूक्तयः (प्राणः योगश्च)

विकिसूक्तिः तः
Jump to navigation Jump to search

मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्।
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते॥ वन. २१३/३॥

भूतं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम्।
श्रेष्ठं तदेव भूतानां ब्रह्मयोनिमुपास्महे॥ वन. २१३/४॥

प्रयत्ने कर्मणि बले स एष त्रिषु वर्तते।
उदानमिति तं प्राहुरध्यात्म विदुषो जनाः॥ वन. २१३/८॥

संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते॥ वन. २१३/९॥

प्राणानां संनिपातात् तु संनिपातः प्रजायते।
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्॥ वन. २१३/११॥

समानोदानयोर्मध्ये प्राणापानौ समाहितौ।
समर्थितस्त्वधिष्ठानं सम्यक् पचति पावकः॥ वन. २१३/१२॥

अस्यापि पायुपर्यन्तस्तथा स्याद् गुदसंज्ञितः।
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्॥ वन. २१३/१३॥

पक्वाशयस्त्वधो नाभ्यामूर्ध्वमामाशयः स्थितः।
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः॥ वन. २१३/१५॥

प्रवृत्ता हृदयात् सर्वे तिर्यगूर्ध्वमधस्तथा।
वहन्त्यन्नरसान् नाड्यो दशप्राणप्रचोदिताः॥ वन. २१३/१६॥

पूर्वरात्रे परे चैव युञ्जानः सततं मनः।
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि॥ वन. २१३/२६॥

प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति।
दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते॥ वन. २१३/२७॥

सुखप्रिये सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म।
वित्तक्षये हीनसुखोऽतिवेलं दुःखं शेते कामवेग प्रणुन्नः॥ उद्योग.२७/८॥

प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्॥ शान्ति. १०/६॥

प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत्॥ शान्ति. १५/२२॥

यस्य वाङ्मनसी स्यातां सम्यक् प्रणिहिते सदा।
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात्॥ शान्ति. १७५/३४॥

प्राणिनां सर्वतो वायुश्चेष्टां वर्तयते पृथक्।
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते॥ शान्ति. ३२८/३५॥

प्राणत्यागं सुदुष्करम्॥ अनु. ११७/२॥

दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम्॥ अनु. ११७/१६॥

सर्वत्र निरतो जीव इतश्चापि सुखं मम।
चिन्तयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम्॥ अनु. ११७/१७॥

इहापि विषयः सर्वो यथादेहं प्रवर्तितः।
मानुषाः स्थैर्यजाश्चैव पृथग्भोगा विशेषतः॥ अनु. ११७/१८॥

न हि प्राणैः प्रियतरं लोके किंचन विद्यते।
तस्मात् प्राणिदया कार्या यथाऽऽत्मनि तथापरे॥ अनु. १४५ दा. पा. अ. XI॥

प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्॥ आश्व. ९०/५९॥