महाभारतसूक्तयः (बुद्धिः)
सात्त्विकबुद्धिः
[सम्पाद्यताम्]प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥ भी. ४२/३०॥
राजसिकबुद्धिः
[सम्पाद्यताम्]यया धर्ममधर्मं च कार्यं चाकार्यमेव च।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी॥ भीष्म. ४२/३१॥
तामसिकबुद्धिः
[सम्पाद्यताम्]अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता।
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी॥ भीष्म. ४२/३२॥
अन्यथा यौवने मर्त्यो बुद्ध्या भवति मोहितः।
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम्॥ सौप्तिक. ३/११॥
अज्ञातानां च विज्ञानात् सम्बोधाद् बुद्धिरुच्यते॥ सौप्तिक. १७/२१॥
आत्मसंयमनं बुद्ध्या परबुद्ध्यावधारणम्।
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम्॥ शान्ति. १२०/१८॥
बुद्धिर्दीप्ता बलवन्तं हिनस्ति बलं बुद्ध्या पाल्यते वर्धमानम्।
शत्रुर्बुद्ध्या सीदते वर्धमानो बुद्धेः पश्चात् कर्म यत्तत् प्रशस्तम्॥ शा.१२०/४२॥
प्रज्ञाप्रासादमारुह्य अशोच्यः शोचतो जनान्।
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपत्स्यति॥ शान्ति. १५१/११॥
न हि बुद्ध्या समं किंचिद् विद्यते पुरुषे नृप।
तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन॥ १५७/१२॥
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः।
प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्॥ शान्ति. १८०/२॥
नागामिनमनर्थं हि प्रतिघातशतैरपि।
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः॥ शान्ति. २२७/३२॥
प्रज्ञा संयोजयत्यर्थैः प्रज्ञाश्रेयोऽधिगच्छति।
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः॥ शान्ति. २३७/९॥
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति।
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति॥ शान्ति. २४७/१४॥
गुणान् नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि।
मनः षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः॥ शान्ति. २४७/१६॥
मनो विसृजते भावं बुद्धिरध्यवसायिनी।
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना॥ शान्ति. २४८/३॥
बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनाऽऽत्मनि।
यदा विकुरुते भावं तदा भवति सा मनः॥ शान्ति. २४८/३॥
इन्द्रियाणां पृथग्भावाद् बुद्धिर्विक्रियते ह्यतः।
श्रृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते॥ शान्ति. २४८/४॥
इन्द्रियाणि तु तान्याहुस्तेष्वदृश्योऽधितिष्ठति।
तिष्ठति पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते॥ शान्ति. २४८/६॥
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते।
सरितां सागरो भर्ता महावेलामिवोर्मिमान्॥ शान्ति. २४८/८॥
यदा प्रार्थयते किंचित् तदा भवति सा मनः॥ शान्ति. २४८/९॥
सत्त्वमात्मा प्रसरति गुणान् वापि कदाचन।
न गुणा विदुरात्मानं गुणान् वेद स सर्वदा॥ शान्ति. २४८/२०॥
परिद्रष्टा गुणानां च परिस्रष्टा यथातथम्।
सत्त्वक्षेत्रयोरेतदन्तरं विद्धि सूक्ष्मयोः॥ शान्ति. २४८/२१॥
इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता।
संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान् विदुः॥ शान्ति. २५५/१०॥
तस्माद् बुद्धेर्हि रक्षार्थं सद्भिः पानं विवर्जितम्॥ अनु. १४५ दा. पा. XI॥